2025-01-21 07:36:43 by ambuda-bot
This page has not been fully proofread.
रसः]
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
205
कुत्रैषा व्याप्तिः ?
सर्वार्थसिद्धिः
सिद्धो ह्यन्यत्र दृष्टान्तः साध्ये त्वन्योन्यसंश्रयः ।
त्रसरेणुः पराणुस्सन् किं नाध्यक्षोऽपराणुवत् ॥
चाक्षुषत्वप्रकर्षनिकर्षयोर्महत्त्वप्रकर्षनिकर्षानुविधानात् द्रव्यस्य
चाक्षुषत्वं महत्त्वनियतमिति चेत्; चाक्षुषावयवकस्यैव द्रव्यस्य
चाक्षुषत्वानियमदर्शनात् । अचाक्षुषावयवस्य त्रसरेणोरप्य-
चाक्षुषत्वप्रसङ्गे कस्ते निस्तार : ? अगत्येति चेत् ; भवतु
कुतश्चिन्महत्त्वाभावेऽपि क्वचिदेवं ।
आनन्ददायिनी
कुत्रेति — गृहीतेति शेषः । प्रत्यक्षासिद्धो दृष्टान्त उतानुमानिक इति
विकल्पमाभप्रेत्याद्यं दूषयति — सिद्ध इति । नात्र प्रत्यक्षसिद्धिरिति
भावः । द्वितीयं दूषयति — साध्ये त्विति । तस्यापि दृष्टान्तापे-
क्षायामनुमानान्तरार्धनिस्य दृष्टान्तत्वे चक्रकानवस्थाप्रसङ्गात्प्राथमिकानु-
मानगम्यस्यैव दृष्टान्तत्वेऽन्योन्याश्रय इत्यर्थः । त्रसरेणोः परमाणु-
त्वेऽापं प्रत्यक्षत्वं साधयति — त्रसरेणुरिति । परमाणुस्सन्— परमाणु-
स्थानापन्नः । त्रसरेणुरध्यक्षः अणुत्वात् तदपेक्षया स्थूलजालमरीचि -
मध्यभासमानाणुवत् । इन्द्रियस्याणुत्वं नास्तीति 'अणवश्चेति'
सूत्रे प्रत्यपादीति भावः । महत्त्वस्य बहिर्द्रव्यप्रत्यक्षव्यापकत्वा-
त्रसरेणौ तन्निवृत्तिमाशङ्कते — चाक्षुषत्वति । बहिर्द्रव्यप्रत्यक्षत्वेत्यर्थः ।
यद्वा चाक्षुषत्वनिवृत्तिमाशङ्कत इत्यर्थः । साहचर्यमात्रं न व्याप्ति -
ग्राहकमप्रयोजत्वादित्याह— चाक्षुषावयवस्यैवेति । तथाचात्र त्रसरेणौ
विश्रमानङ्गीकर्तुस्तदतिरिक्तपरमाण्वभ्युपगन्तुरपीत्यर्थः । कुतश्चित् —
कारणान्तरात् । क्वचित् — त्रसरेणौ महत्त्वरूपपरिमाणाभावेऽपि । एवं-