2025-01-21 07:36:43 by ambuda-bot
This page has not been fully proofread.
204
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्तोकलाप
[जडद्रव्य
तत्वमुक्ताकलापः
विश्रमस्त्वस्तु दृष्टे
सर्वार्थसिद्धिः
वान्येषु सर्वेष्वङ्गीकारात् कल्प्येष्वपि तत्प्रसङ्गो दुर्वार इति
ब्रूमः । नचान्यत्रैवायं नियम इति स्थाप्यं तादृशानामणू -
नामदृष्टेः । अनन्यथासिद्धलिङ्गाभावाच्च । यदि विभज्यमानेष्व-
भावपरिशेषायोगात् परमाणुरपि सत्वरजस्तमसां सर्वापकृष्टस्स-
वात इति सांख्यमतस्य निर्मूलत्वात् महत्परिमाणतारतम्य-
विश्रान्तिवत् परिमाणतारतम्यत्वादणुपरिमाणतारतम्यविश्रान्ति-
रपि क्वचित्कल्प्येत तत्राह - विश्रमस्त्वस्तु दृष्ट इति । दृष्टे त्रसरेणौ
विश्रमसंभवे न मृग्यं ह्यन्यत् । तथा च सिद्धसाध्यता । यदि
त्रसरेणुरेव परमाणुस्स्यात् अप्रत्यक्षस्तर्हि स्यादिति चेत्; हन्त ;
आनन्ददायिनी
यद्यपि द्व्यणुकस्य परमाणुरवयवः; तथाऽप्यवयव्यारम्भकाणामवयवानां
संयोगः स्वावयवावच्छिन्नो दृष्ट इति त्वयाऽपि द्व्यणुकातिरिक्त-
कार्यस्थलेऽङ्गीकारादित्यर्थः । अत्र प्रत्यक्षदृष्टेस्संकोच उतानुमानादिति
विकप्ल्याद्यं दूषयति--- तादृशानामणूनामदृष्टेरिति - अप्रत्यक्षत्वादित्यर्थः ।
द्वितीयं दूषयति-अनन्यथेति । लिङ्गं शङ्कते - यदति । सर्वापकृष्टस्संघात
इति—प्रकृतिकार्यत्वादिति भावः । निर्मूलत्वात् - निष्प्रमाणकत्वात् ।
महत्परिमाणेति । अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारत-
म्यत्वात् महत्परिमाणतारतम्यवदिति प्रयोगो द्रष्टव्यः । यत्र विश्रमस्स
न
निरवयवोऽणुरिति भावः । न मृग्यमिति—अन्यत्परमाणुद्रव्यं
कल्प्यमित्यर्थः । यदीति परमाणोरतीन्द्रियत्वनियमादिति भावः ।