This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
 
203
 
सर्वार्थसिद्धिः
 
त्स्यामः तदा विप्रतिबन्द्या अणुष्वपि तत्संभवः प्रदर्खेत ।
किंत्ववयव्यारम्भकाणामवयवैरेव संयोग इति नियमस्य त्वयै-
आनन्ददायिनी
 
वर्तिसंयोगापह्नवायेत्यर्थः । विभुप्रतिबन्धेति । यद्यपि विभूनां
तन्नयूनपरिमाणसंयोगः स्वाश्रयभूतन्यूनपरिमाणद्रव्याभावे न संभवति
आश्रयरहितप्रदेशे संयोगासंभवात् । यद्येकाश्रयसत्त्वमात्रात् प्रति-
योग्यन्तराभावप्रदेशेऽप्याश्रयान्तरे संयोगस्स्यात् तथा सति प्रदेशा-
न्तरवर्तिवह्निना पटस्य कार्त्स्न्येन संयोगस्स्यात् अविशेषादिति कृत्स्न-
पटदान कदेशेन पटदाहः कुत्रापि न स्यादिति युक्तमाकाशा-
दावव्याप्यवृत्तिसंयोगवत्त्वं । परमाणौ तु तन्नयूनपरिमाणप्रतियोग्यन्तरा
भावान्नाव्याप्यवृत्तिसंयोगसंभवः; तथाऽप्यभ्युपगम्यैतदुक्तमिति द्रष्टव्यं ।
तत्संभवः - अव्याप्यवृत्तिगुणसंभवः । अवयव्यारम्भकाणामिति ।
 
भावप्रकाशः
 
66
 
इत्यनेन षट्केनेत्याद्युक्तार्थदृढीकरणात् । अत्रैव पूर्वं अतस्सर्वदिगुपाधि-
संयोगानां परमाणुषु पृथक्प्रदेशरहितानां कथमौपाधिकभागभेदापादकत्व-
मित्याद्युक्तदूषणानुद्धाराच्च । सिद्धान्ते निरंशसंयोगः श्रुतेस्तु शब्द-
मूलत्वात् " इति सूत्रेण व्यवस्थापितः । त्रसरेण्वंशानामदर्शनेन तेषां
निरवयवतया तत्संयोगस्सर्वजनप्रत्यक्षविषय इति ' संसर्गे च निरंशत्वं '
इत्याद्युक्तदोषस्य न प्रसर इति ;
 
संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ।
 
इति माध्यमिकोक्तौ ' यदि दृष्टं ' इति भागमवलम्ब्यैव ' महद्दीर्घ-
वद्वा ह्रस्वपरिमण्डलाभ्याम् " इति ( २ - २) सूत्रभाष्योक्तदूषणं संगम-
यति — किन्त्वित्यादिना ।