2025-01-21 07:36:42 by ambuda-bot
This page has not been fully proofread.
202
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
भावप्रकाशः
अंशा अप्यणुभेदेन सोऽप्यणुर्दिग्विभागतः ।
दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः ॥
6
इति (बों. पं. ९-८७) कारिकाविवरणे प्रज्ञाकरमतिना एतत्कारिकोदाह-
रणं संगच्छते । एतेन संयोगोपपत्तेश्च (४-२-२४) इति सूत्रे वाचस्पतिना
( न्या.वा.ता.टी ) " द्रव्याणामेवात्र समवायेन समानदेशतां व्यासेधामो
न तु संयोगेन । समवायेन हि समानदेशता स्थौल्यपरिपन्थिनी ।
यथा गन्धरसरूपस्पर्शास्समानदेशा न स्थौल्यमारभन्ते तत्कस्य हेतोः ?
एषाममूर्तीनां समानदेशसमवायात् । मूर्तस्तु स्पर्शवन्तस्समवायेनास-
मानदेशाः परस्परसंयोगिनो यदि स्थौल्यमारभन्ते किं बाध्यते ? तस्मात्
संयोगेन समानदेशता न प्रतिषिध्यते । समवायेन तु प्रतिषिध्यते ।
सा हि स्थौल्यविरोधिनीति सिद्धम् " इति । दिग्देशभेदाश्च दिश-
स्संयोगा इत्युपक्रम्य ' तस्मादेकस्यापि परमाणोः परमाण्वन्तरसंयोगा
अव्याप्यवृत्तय एव भागाः । एवं दिशोऽप्येकस्या अपि संयोगा एव
भागाः । सोऽयं परमाणोप्पट्केन युगपद्योगो मूर्तत्वमात्रप्रयुक्तो न
सावयवत्वप्रयुक्त इति न सावयवत्वं गमयितुमर्हतीति । तेन यदुच्यते
प्रसङ्गसाधनं परै: -- ' यन्निरवयं तन्न षट्केन संयुक्तं यथा विज्ञानं
तथाच परमाणुरिति व्यापकविरुद्धोपलब्धिः " इति ; तन्निरस्तं ।
मूर्तत्वप्रयुक्तत्वेन षट्कसंयोगस्य सावयवत्वेन व्याप्तेरसिद्धेः । छाया-
तपयोगोऽपि परमाणोरेकसंयोगस्याव्याप्यवृत्तित्वेनोपपन्नः" इति च
यदुक्तं विंशतिकारिकोक्तदूषणपरिहरणं तत्परास्तं । माध्यमिकैः —
नाणोरणौ प्रवेशोऽस्ति निराकाशस्समश्च सः ।
अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः ॥
निरंशस्य च संसर्गः कथं नामोपपद्यते । ?
संसर्गे च निरशत्वं यदि दृष्टं निदर्शय ॥ (बो - पं ९-९५-९६)