2025-01-21 07:36:41 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
201
सर्वार्थसिद्धिः
संबन्धव्यवस्थेति निरस्तं । तत्प्रदेशभेदस्यैव मृग्यमाणत्वात् ।
विशुद्रव्यमेव तत्तन्मूर्ततुल्यपरिमाणं जायत इति चेन्न ; विरो-
धादुक्तदोषानतिक्रमाच्च । काल्पनिकांशभेदेन मूर्तसंयोग इति
चेत्तर्हि वस्तुतस्त्वखण्डेनेत्युक्तं स्यात् । अंशभेदकल्पना च
किं विभुद्रव्यस्वरूपमात्रे उत तदंश एवेति दुस्तरो गर्तः ।
निरंशानामपि स्वभावत एव विभूनामनेकपूर्तसंयोगक्षमत्वमिति
चेदणूनामप्येतदस्तु ; अविशेषात् । * एवं त्रसरेणुप्रतिवन्दिश्च
भाव्येति । 2 *अत्रोच्यते - यदि वयं प्रदेशवर्तिगुणनिह्नवाय प्रव-
आनन्ददायिनी
स्य प्रदेशेषु । तत्प्रदेशभेदस्यैवेति —–— उपाधिसमपरिमाणविभुप्रदेशस्यै-
वासिद्धेरित्यर्थः । विरोधादिति — विभुनः कार्यत्वाभावात्तथात्वे विभुत्व-
व्याघातादित्यर्थः । उक्तदोषेति -- तत्तुल्यपरिमाणमप्यंशभेदेन जायते
उत न ? उपाधिना विच्छिन्नं न तत्तुल्यपरिमाणं जायते अविच्छिन्नं
वा? इत्यादि दोषानतिक्रमादित्यर्थः । तर्हांति—कल्पानिकांशस्य
वस्तुनः पारमार्थिकवस्तुनिर्वाहकत्वाभावादित्यर्थः । कल्पनापेक्षेऽप्यु-
क्तदोषानिस्तार इत्याह- अंशभेदेति । सिद्धान्ते त्रसरेणूनां निरं-
शत्वात्तत्संयोग प्रतिबन्दिमप्याह — एवमिति । प्रदेशवर्तीति — —प्रदेश-
भावप्रकाशः
1 * एवं त्रसरेणुप्रतिबन्दिश्च भाव्येत्यनेन ' संयोगस्तहत्यारभ्य
सोऽपि न स्वांशाभ्यां वर्तते ' इति पूर्वग्रन्थार्थ आक्षिप्तः ।
2* अत्रोच्यत इत्यादि — अत्र न्यायसिद्धाने षट्केनेत्याद्युक्त-
दूषणं माध्यमिकैरेवोद्भावनीयं नान्यैरित्ययमर्थ उपपादितः । अत एव -