2025-01-21 07:36:42 by ambuda-bot
This page has not been fully proofread.
200
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
कात्स्नर्येन विभुद्रव्यमेकेन स्पर्शवता संयुज्यते कथं स्पर्श-
वदन्तरेण तस्य संयोगस्स्यात् ? अंशतश्चेत्; सावयवत्वप्रसङ्गः ।
न हि विभुद्रव्यस्यावयवत्वं सङ्घातत्वं वा सुवचं; पूर्वत्र स्पर्श-
वत्त्ववृत्तत्वकार्यत्वानित्यत्वादिप्रसङ्गात् । उत्तरत्र नानात्वभेदा-
भेदयोरन्यतरापातात् । तत्र च विभुद्रव्यांशानां मिथस्संयो-
गोऽस्ति न वा ? अस्ति चेत ; तत्रापि स एव प्रसङ्गः । नास्ति
चेत्; असंहतरूपता स्यात् । औपाधिको विभूनामंशभेद
इति चेन्न ; उपाधिसंयोगेऽप्यंशादिविकल्पानपायात् । निरंशेऽपि
संयुज्यमानं स्वरूपेण तद्भेदोपाधिरिति चेन्न ; स भेद उपाधिना
छिन्ने चेदवयवविश्लेषात्मा स्यात् । अच्छिन्ने तु भेदाभेदवाद एव
शरणं । अत एव स्वसमानपरिमाणेषु विभुप्रदेशेषु तत्तदुपाधि-
आनन्ददायिनी
कर्मसत्वेऽपि विभुषु संयोगो नोत्पद्यते तदा तत्र व्यभिचारादन्य-
तरकर्म न संयोगकारणमिति कुत्रापि ततस्संयोगो न स्यादित्यर्थः ।
कथमिति———सप्रतिघत्वविरोधादित्यर्थः । इष्टापत्तिं निराचष्टे – न ( हि
च विभुद्रव्यस्येति । अवयवित्वावयवसङ्घातत्वे मतभेदेन । उत्तर-
त्रेति—नानात्वाङ्गीकारे एकस्यैव सङ्घातत्वार्थं भेदाङ्गीकारे भेदाभेद-
प्रसत इत्यर्थः । अंशभेदमङ्गीकृत्याह - तत्र चेति । विभुद्रव्यस्यांशवत्त्व
इत्यर्थः । स एवेति – स्वांशभेदेन संयुज्यते न वेत्यादिप्रसङ्ग इत्यर्थः ।
असंहतरूपता स्यादिति-- एकं वस्तु विभुद्रव्यं न स्यादित्यर्थः ।
अच्छिन्ने—अखण्डिते । भेदाभेदेति अखण्डितस्याभिन्नत्वादिति भावः ।
स्वसमानपरिमाणेषु—उपाधिसमपरिमाणेषु । विभुप्रदेशेषु -- विभुद्रव्य-