This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
 
199
 
सर्वार्थसिद्धिः
 
निरूढं । अवयव्यारम्भकसंयोगस्तु त्वयाऽपि न क्वचिदंशनि-
रपेक्ष उक्तः । क्वचिद्विशेषाङ्गीकारे नियामकाभावः । अथ
सङ्घातारम्भकसंयोगेऽपि समः प्रसङ्ग इति ; न समः ; संयोग-
साध्यसङ्घाताभावात् । तत्स्वीकारे ह्यवयविवाद एव परं । संयोग-
स्तार्येोऽनेकवृत्तिस्सन् अंशानंशविकल्पदौस्थ्यं नातिक्रामेत् ।
न सौ नास्त्येव ; सिद्धयोः साध्यतया दृष्टेरिति । तदपि न ;
विषयित्ववन्निस्तारात् । सोऽपि हि द्वयोर्न स्वांशाभ्यां वर्तत
इति दृश्यते । एवं स्वामित्वादयोऽपि न प्रतिबन्दि: । अस्तु
तर्हि संयुक्त प्रतिवन्दिः; मूतैर्विभूनां संयोगोऽस्ति वा न वा ?
नचेदन्यतरकर्मजसंयोगलोपः अविशेषात् । अस्ति चेत् ; यदि
आनन्ददायिनी
 
निरूढमिति—उपपन्नमित्यर्थः । अवयव्येति — परमाणुव्यतिरिक्तस्थल
इति शेषः । ननु परमाण्वारब्धस्सङ्घात इत्यङ्गीकारेऽपि तत्रोक्त-
विकल्पदोषस्यादिति प्रतिबन्दिमाशङ्कते — अथेति । परिहरति-
न सम इति – संयोगस्यैव सङ्घातत्वादिति भावः । ननु निरंशस्सं-
योग उभयवृत्तिरङ्गीक्रियते । तत्र स्वांशेन वर्तते उत कात्स्र्त्स्न्येन ?
नान्त्यः ; एकत्र वृत्तावन्यत्राभावप्रसङ्गात् । न प्रथमः ; अंशाभावा
दिति प्रतिबन्दीं शङ्कते —संयोगस्तर्हीति । सिद्धयोरिति—इदं
वस्तुद्वयं दूरस्थं मया संयुक्तमिति सिद्धयोर्वस्तुनोः साध्यतया -
जन्यतया संयोगस्य दर्शनादित्यर्थः । यथादर्शनमङ्गीकारादुभयवृत्ति-
ताया नानुपपत्तिरित्याह — तदपि नेति । तदवोपपादयति — सोऽपीति-
संयोगोऽपीत्यर्थः । दासत्वादिरादिशब्दार्थः । न प्रतिबन्दिः - न
प्रतिबन्दियोग्य इत्यर्थः । अविशेषादिति – यदा पक्ष्यादेरन्यतरस्य
 
-