2025-01-21 07:36:39 by ambuda-bot
This page has not been fully proofread.
1198
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
बुद्धेस्त्वं ज्ञानपेक्षा स्फुरति विषयिता
सर्वार्थसिद्धिः
अणुष्वपि तथा स्यात् । तत्राह — बुद्धेस्त्विति । तुः शङ्का-
निवृत्त्यर्थः । विषयत्वं शानपेक्ष (त) यैव दृष्टं । न ह्यन्यतोSपि
तस्यान्यथा दृष्टिः । अतो यथोपलम्भमेकवदनेकोऽपि विषय
एकस्या बुद्धेः । एवमेकस्य निरंशस्यानेकबुद्धिविषयत्वमपि
आनन्ददायिनी
संविदोऽप्युपयुक्तत्वादिति भावः । उल्लेखो― विषयीकरणं । अंशान-
पेक्षयेत्यत्र अंशस्यापेक्षा न विद्यते यस्येति गमकत्वात्समास इति
ध्येयम् । न ह्यन्यत इति --- उपाध्यधीनांशभेदक्लुप्त्या वा बुद्धेर्विषयता
दृष्टा नेत्यर्थः । यथोपलम्भमिति — एकविषयत्ववदनेकविषयत्वस्यापि दर्श-
नानुसारादुपपत्तिः; वस्तुव्यवस्थाया उपलम्भानुसारित्वादित्यर्थः ।
भावप्रकाशः
सह जन्म (यस्य) तस्य दर्शनमेकसामग्रीप्रतिबद्धत्वात् प्रतीत्यसमुत्पाद-
स्याचिन्त्यत्वाच्च । न तु परमार्थतो दर्शनमस्ति ; येनैवं दृष्टादिव्यव-
हारः । वेदना तेन नेक्ष्यते -- येन दृष्टसुखसाधनादिव्यवहारोऽप्यन्यत
एव तेन कारणेन वेदना नेक्ष्यते न च दृश्यते वस्तुतः इति ।
ज्ञानार्थयोः परमार्थतो निराकारयोः संसर्गज अकार इति बुद्धिसरे
संसर्गाद्बोध्यबुद्धयोः (२८) इति लोके वक्ष्यमाणः पक्षो माध्यमिका -
भिमत इति प्रतिभाति ॥