2025-01-21 07:36:39 by ambuda-bot
This page has not been fully proofread.
196
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापै
भावप्रकाशः
विकल्पस्स्वयमेवायमविद्यारूपतां गतः ।
[जडद्रव्य
इति । अविद्या च संवृतिः इति नैव काचिद्बुद्धिः पारमार्थिकरूपग्रा-
हिणी परमार्थतो युज्यते । अन्यथा सांवृतबुद्धिग्राह्यतया परमार्थरूपतैव
तस्य हीयेत । परमार्थस्य वस्तुतः सांवृतज्ञानाविषयत्वात् । तत्र
चेदमुक्तं भगवता आर्यसत्यद्वयावतारे---
यदि हि देवपुत्र परमार्थतः परमार्थसत्यं कायवाङ्मनसां विषय-
तामुपगच्छेत् न तत्परमार्थसत्यमिति संख्यां गच्छेत् । संवृतिसत्यमेव
तद्भवेत् । अपितु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमतिक्रान्तं निर्विशेषं
असमुत्पन्नमनिरुद्धं अभिषेयाभिधानज्ञेयज्ञानविगतं । यावत्सर्वाकारवरो-
पेतसर्वज्ञज्ञानविषयभावसमतिक्रान्तं परमार्थसत्यमिति विस्तरः इति च ।
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ॥
इति —
निस्स्वभावा अमी भावास्तत्वतस्स्वपरोदिताः ।
एकानेकस्वभावेन वियोगात्प्रतिबिम्बवत् ।:
इति—
यदन्यसंनिधानेन दृष्टं न तदभावतः ।
प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् ॥
इति च । न रूपशून्यतया रूपं शून्यं रूपमेव शून्यं शून्यतैव
रूपम् । न वेदनाशून्यतया वेदना शून्या वेदनैव शून्या शून्यतैव
वेदना । न संज्ञाशून्यतया संज्ञा शून्या संज्ञेव शून्या शून्यतैव संज्ञा ।
न संस्कारशून्यतया संस्कारारशून्याः संस्कारा एव शून्याः शून्यतैव
संस्काराः । न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानमेव शून्यं
शून्यतैव विज्ञानमिति विस्तरः । उक्तं च-