This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
 
195
 
भावप्रकाशः
 
तानेव स्कन्धादीन्येन स्वभावेन निरस्तसमस्ताविद्यावासना बुद्धा भग-
वन्तः पश्यन्ति । अतैमिरिकोपलब्ध केशदर्शनन्यायेन तदेषां परमार्थ-
सत्यमिति । यदाह शास्त्रवित्-
 
विकल्पितं यत्तिमिरप्रभावात्
शादिरूपं वितथं तदेव ।
 
येनात्मना पश्यति शुद्धदृष्टिः
तत्तत्वमित्येवमिहाप्यवेहि ॥
 
इति । परमार्थतोऽवाच्यमपि परमार्थतत्वं दृष्टान्तद्वारेण संवृतिमुपादाय
कथंचित्कथितम् । न तु तदशेषसांवृतव्यवहारविरहितस्वभावं वस्तुतो
वक्तुं शक्यत इति । यदुक्तम्—
 
अनक्षरस्य धर्मस्य श्रुतिः का देशना च का ? ।
 
श्रूयते देश्यते चार्थः समारोपादनक्षरः ॥
 
इति । तस्माद्वयवहारसत्य एव स्थित्वा परमार्थो देश्यते । परमार्थ-
देशनावगमाच्च परमार्थाधिगमो भवति । तस्यास्तदुपायत्वात् । यदुक्तं
शास्त्रे-
 
-
 
व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
 
परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥
 
इति । एवं परमार्थदेशनोपायभूता परमार्थाधिगमश्चोपेयभूत इति ।
अन्यथा तस्य देशयितुमशक्यत्वात् । ननु च तथाविधमपि तथाविध-
बुद्धिविषयः परमार्थतः किं न भवतीत्यत्राह — बुद्धिस्संवृतिरुच्यते
इति । सर्वा हि बुद्धिरालम्बननिरालम्बनतया विकल्पस्वभावा । विक-
ल्पश्च सर्व एवाविद्यास्वभावः अवस्तुग्राहित्वात् । यदाह -
 
13*