2025-01-21 07:36:38 by ambuda-bot
This page has not been fully proofread.
194
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
भावप्रकाशः
[जडद्रव्य
पदार्थस्य निस्स्वभावता पारमार्थिकं रूपं । यथाप्रतिभासं सांवृत-
स्यानुपपन्नत्वात् इति । सत्यद्वयमिदमुक्तं । तत्राविद्योपप्लुतचेतसां
तत्स्वभावतया संवृतिसत्यमिति प्रतीतं । परमार्थसत्यं तु न ज्ञायते कीदृ-
किंस्वभावं किंलक्षणमिति । अतो वक्तव्यं तत्स्वरूपमिति अत आह—
बुद्धेरगोचरस्तत्वमिति । बुद्धेः – सर्वज्ञानानां । समतिक्रान्तसर्वज्ञान-
विषयत्वादगोचरः–अविषयः । केनचित्प्रकारेण तत्सर्वं (बुद्धि) विषयीकर्तुं
न शक्यत इति यावत् इति । कथं तत्स्वरूपं प्रतिपादयितुं शक्यम् ?
तथाहि–सर्वप्रपञ्चविनिर्मुक्तस्वभावं परमार्थ (सत्यं) तत्वं । अतः सर्वोपाधि-
शून्यत्वात्कथं कयाचित्कल्पनया पश्येत । कल्पनासमतिक्रान्तस्वरूपं च
शब्दानामविषयः । विकल्पजन्मानो हि शब्दाः विकल्पधियामविषये न
प्रवर्तितुमुत्सहन्ते । तस्मात्सकलविकल्पाभिलापविकलत्वादनारोपितमसां
वृतमनभिलाप्यं परमार्थतत्वं कथमिव प्रतिपादयितुं शक्यते ? तथापि
भाजनश्रोतृजनानुग्रहार्थं (परिकल्पमुपादाय ) संवृत्या निदर्शनोपदर्शनेन
किञ्चिदभिधीयते—यथा तिमिरप्रभावात्तैमिरिकः सर्वमाकाशदेशं केशो-
ण्डुकमण्डितमितस्ततोमुखं विक्षिपन्नपि पश्यति । तथा कुर्वन्तमवेत्यातै-
मिरिकः किमयं करोतीति तत्समीपमुपसृत्य तदुपलब्धकेशप्रणिहितलो-
चनोऽपि न केशाकृतिमुपलभते नापि तत्केशाधिकरणान् भावाभावादि-
विशेषान् परिकल्पयति । यदा पुनरसौ तैमिरिको मिरिकाय स्वाभिप्रायं
प्रकाशयति केशानिह पश्यामीति तदा तद्विकल्पापसारणाय तस्मै
यथाभूतमसौ ब्रवीति नात्र केशास्सन्तीति । तैमिरिकोपलब्धानुरोधेन
प्रतिषेधपरमेव वचनमाह । न च तेन तथा प्रतिपादयताडाप कस्यचि-
त्प्रतिषेधः कृतो भवति विधानं वा । तच्च केशानां तत्वं; यत्तै
मिरिकः पश्यति नातैमिरिकः । एवमविद्यातिमिरोपघातादतत्वदृशो बाला
यदेतत् स्कन्धधात्वायतनादि स्वरूपमुपलभन्ते तदेषां सांवृतं रूपं ।