This page has not been fully proofread.

192
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
भावप्रकाशः
 
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
 
लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥
 
इत्ति । व्याख्यातं चैतत् चन्द्रकीर्तिना माध्यमिकवृत्तौ-
 
[ जडद्रव्य
 
(माध्य-वृ)
 
इह हि भगवतां बुद्धानां सत्यद्वयमाश्रित्य धर्मदेशना प्रवर्तते ।
कतमत् सत्यद्वयम् ? लोकसंवृतिसत्यं च परमार्थसत्यं च । तत्र—
 
स्कन्धात्मा लोक आख्यातः तत्र लोकादिनिश्चितम्ः ।
इति वचनात् पञ्चधातूनुपादाय प्रज्ञप्यमानः पुद्गलो लोक इत्युच्यते ।
समन्ताद्वरणं संवृतिः । अज्ञानं हि समन्तात् सर्वपदार्थतत्वाव-
च्छादनात् संवृतिरित्युच्यते । परस्परसंभवनं वा संवृतिः । अन्योन्य-
समाश्रयणीयेत्यर्थः । अथवा संवृतिः संकेतो लोकव्यवहार इत्यर्थः ।
स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षणः । लोके संवृतिः लोकसंवृतिः ।
किं पुनरलोकसंवृतिरप्यस्ति ? यत एवं विशेष्यते लोकसंवृतिरिति ?
यथावस्थितपदार्थानुवाद एषा ; नात्रैषा चिन्तावतरति । अथवा तिमिर-
कामलाद्युपहतेन्द्रियविपरीतदर्शनावस्था लोकाः । तेषां या संवृतिः अतो.
विशेष्यते लोकसंवृतिसत्यमिति । एतच्च लङ्कावतारे विस्तरेणोक्तं
ततो वेदितव्यं इति । एवमन्यत्रापि (बो. च)
संवृतिः परमार्थश्च सत्यद्वयमिदं मतम् ।
 
बुद्धेरगोचरस्तत्वं बुद्धिस्संवृतिरुच्यते ॥
 
इति । प्रज्ञाकरमतिश्च बोधिचर्यावतारपञ्चिकायामेतदित्थं व्याचख्यौ -
संक्रियते आत्रियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्चा-
नयेति सवृतिः । अविद्या मोहो विपर्यास इति पर्यायाः । अवि-
द्या ह्यसत्पदार्थस्वरूपारोपिका स्वभावदर्शनावरणात्मिका च सती संवृ-
तिरुपपद्यते । यदुक्तमार्यशालिस्तम्बसूत्रे - ' पुनरपरं तत्वेऽप्रतिपत्तिर्मि-
थ्याप्रतिपत्तिरज्ञानमविद्या' इति । उक्तं च-