2025-01-21 07:36:36 by ambuda-bot
This page has not been fully proofread.
सर: ]
त्रिगुणपरीक्षायां परमाणुकारणवादनिरासः
191
सर्वार्थसिद्धिः
ननु बुद्धिस्तावत्सर्वतन्त्रासद्धा । ' सांवृतीत्यपि हि तां माध्य-
मिको मन्यते !
। *
आनन्ददायिनी
सर्वशून्यवादिनः सा न सिद्धत्यत आह-- सांवृतीति – दोषसिद्धेत्यर्थः ।
इति । तदुत्तरं -
भावप्रकाशः
परमाणोरसंयोगे तत्संघातोऽस्ति कस्य सः ।
नचानवयवत्वेन तत्संयोगो न सिध्यति ॥ १३॥
दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते ।
इति कारिकाक्रमः । तत्र दिग्भागभेद इति कारिकार्थः मूले द्वितीय-
पादेन विशदकृितः । ननु योगाचारमते विज्ञानमात्रस्य सत्यत्वाङ्गी-
कारेण तदाकाररूपविषयतासंभवेऽपि माध्यमिकमते-
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते ।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते ॥ (माध्य-वृ)
इति सिद्धान्तेन विज्ञानमप्यसत्यं-
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः ।
सर्वशश्च न संसर्गमन्योऽन्येन व्रजन्युत ॥
सान्तरविन्द्रियार्थी चेत् संसर्गः कुत एतयोः ।
निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः ॥
निरंशस्य च संसर्गः कथं नामोपपद्यते ।
संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ॥
विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते ।
(माध्य - वृ)
(बो-च-पं)
इति संसर्गोऽपि दूषितः । एवं च बुद्धेस्सर्वतन्त्रसिद्धता कथमिति शङ्का-
मपाकरोति । * सांवृतीत्यादिना । उक्तं च माध्यमिकैः -