This page has not been fully proofread.

190
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
किं न स्युः ? वृथा चैवमंशक्लुप्तिः; अभागेन संयोगावस्थि-
तेरिति । तदिदं सर्वमभिप्रेत्याहु:-
 
'* षट्केन युगपद्येोगात् परमाणोष्पडंशता ।
षण्णां समानदेशत्वे पिण्डस्यादणुमात्रकः ॥ इति ।
आनन्ददायिनी
 
षट्केनेति—षभिः परमाणुभिरेकस्य परमाणोष्षट्सु पार्थेषु योगे पर-
माणोः षडंशत्वं । यदि पार्श्वभेदमन्तरेण संबन्धस्तदाऽधिकपरिमाणं न
स्यादिति भावः । अणुमात्रक इति । स्वार्थे कः । अणुपरिमाण इत्यर्थः । ननु
भावप्रकाशः
 
पक्षयोर्विरोधोत्प्रेक्षणेन ईक्षत्यधिकरणकल्पतरुविरुद्धस्य त्रिवृत्करणपक्षस्यैव
मुख्यसिद्धान्तत्वोक्तिर्वंशीधरस्यायुक्तैवेति ।
 
वैनाशिक मूर्धन्येन प्राचीनेन योगाचारमतानुयायिना वसु-
बन्धुना विंशतिकारिकाविज्ञप्तिमात्रतासिद्धौ वैभाषिक मतदूषणप्रसङ्गे
यदुक्तं तदर्धवैनाशिकस्यापि दूषणं भवतीति तत्रत्यां कारिकामनुवदति-
*' षट्केनेत्यादिना ।
 
विवृता चेत्थं तेनैव विज्ञप्तिमात्रतासिद्धौ
 
षट्केन युगपद्योगात्परमाणोप्पडंशता ।
 
षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर्युगपद्योगे सति परमाणोष्षडंशता
प्राप्नोति एकस्य यो देशस्तत्रान्यस्यासंभवात् ।
 
षण्णां समानदेशत्वात् पिण्डस्स्यादणुमात्रकः ।
 
अथ य एवैकस्य परमाणार्देशस्स एव षण्णां ; तेन सर्वेषां समान-
देशत्वात्सर्वः पिण्डः परमाणुमात्रस्स्यात् परस्परव्यतिरेकादिति न
कश्चित्पिण्डो दृश्यस्स्यात् । नैव हि परमाणवस्संयुज्यन्ते निरवयवत्वात्