This page has not been fully proofread.

रसः ]
 
त्रिगुणपरीक्षायां परमाणुकारणवाद निरासः
 
189
 
सर्वार्थसिद्धिः
 
कदिक्तत्ववादिनस्ते तन्निबन्धना भागक्लप्तिरशक्या ; तदुपा-
धिसंयोगात्तु स्यादपि ; यदि तत्राप्यंशानंशविकल्पक्षोभोऽति-
लङ्घयेत ; अतस्सर्वदिगुपाधिसंयोगानां परमाणुषु पृथक्प्रदेश-
रहितानां कथमौपाधिकभागभेदसाधकत्वम् ? यदिचानंशभेदेन
संयुक्ता उपाधयः क्वचिद्भागभेदकाः तर्हि परमाणव एव तथा
आनन्ददायिनी
 
;
 
कल्प्या ; नच संयोगभेदः प्रतियोगिभेदाभावादिति भावः ।
ननु दिगुपाधीनां भिन्नत्वात्संयोगभेदस्स्यादित्यत्राह — तदुपाधीति ।
यदि तत्रापाति–परमाणवः स्वांशैरुपाधिभिः संयुज्यन्ते उपाधयो
वा तथा तैस्संयुज्यन्ते उत स्वरूपेणेति विकल्पेन पूर्वदोषानति-
वृत्तेरिति भावः । दिगुपाधीनां परमाणुभिरेकदेशेन संयोगाभावे
दोषमाह– अत इति । ननु स्वांशभेदेन विनाऽप्यु (विना संसृज्यमाना
उ)पाधयः स्वसंयोगिनि परमाणावंशभेदकल्पका भवन्तु इति चेत् ;
मैवं
; तथा सति परमाणूनामेवांशभेदकल्पकत्वमस्तु कृतमुपाधिभिः ?
तदङ्गीकारेऽपि तत्संयोगस्य परमाणौ व्याप्य ( परमाणाव) विद्य।
मानस्य अंशभेदक्लृप्तावनुपयोगादित्याह -- यदि चानंशभेदेनति -
 
भावप्रकाशः
 
दिति चेन्न ता एव ह्युपपत्तेः' इति सूत्रे तच्छब्देन ' पञ्चम्यामाहुतावापः
पुरुषवचसो भवन्ति ' इति श्रुत्युक्तानामपामभिधानात् । तासां त्र्यात्म-
कत्वं च त्रिवृत्करणश्रुत्यैव वाच्यं नान्यथा । एवं च सूत्रस्योपलक्षणत्वे
त्रिवृत्करणश्रुतेरुपलक्षणत्वमकामेनापि स्वीकार्यं । एतत्सर्वमभिप्रेत्यैवा-
द्वैतपरिभाषायां आचार्योक्तरीतिरादृता । अतस्त्रिवृत्करणपक्षपञ्चकरण-