This page has not been fully proofread.

188
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
दिक्संयोगैकदेश्यान्नघटत इह ते दिक्कतोऽप्यं -
 
सर्वार्थसिद्धिः
 
न खल्ववयवास्पृष्टे कुत्रचित्प्रदेशे अवयवी तिष्ठेत् ? अदृष्टेरनि-
ष्टेश्च । अवयवनाशादवयविनाशे क्षणमनाधारोऽवयवीति चेत् ;
तथा कल्पयतापि त्वया पूर्वं तन्तुसङ्घानवच्छिन्नप्रदेशे पटस्य
वृत्तिर्न कल्पिता । एवमधिकारम्भानुपपत्तौ मेरुसर्पपादिविचि-
त्रभेदासिद्धिः । सेयमसिद्धं सिषाधयिषतस्सिद्धहानिः । तथा-
चासिद्धसाधनं निर्मूलम् । ननु परिमितानां सर्वेषां दिग्भेदेन
भागभेदे दृष्टे परमाणुष्वपि तथाऽङ्गीकारो दुर्वार इत्यत्राह — दि-
क्संयोगेति । दिक्संयोगात्तोऽपि हि भागभेदस्सावयवेष्वेव दृष्टः ।
त्रसरेणोरपि त्वया सावयवत्वक्लृप्तेः । निरवयवेषु तु विश्वव्याप्तै-
आनन्ददायिनी
 
न खल्विति । तथात्वे घटादेरपि परमाणुतारतम्यं नियामकाभावान्न स्यात् ।
सर्वकार्यद्रव्यस्यापि विभुत्वं च स्यादिति भावः । नन्ववयवं विनाऽ-
प्यवयवी तिष्ठत्येव विनश्यदवस्थायां ; तथाचावयवाभावप्रदेशेऽप्यवि-
नश्यन्नपि तिष्ठ (ति) तु ; अतिप्रसङ्गस्तु यथाकथञ्चिन्नेय इत्याशङ्कय समा-
धत्ते — अवयवनाशादिति । अन्यथा विन्ध्यभागेऽवयवनाशे हिमवद्भा-
गेऽवयविनाशप्रसङ्गादिति भावः । सेयमित्यादि -- असिद्धं परमाणुं तद-
पेक्षयाऽधिकपरिमाणं व्यणुकं च साधयतः विचित्र परिमाणत्वेन सिद्धस्य
मेरुसर्षपादेस्सिद्धिर्न स्यादित्यर्थः । निमूलं – निष्प्रमाणकमित्यर्थः ।
ननु घटस्य पारमितम्य पूर्वो भागः दक्षिणो भागः पश्चिममुत्तरम् -
र्ध्वमित्यादिदिगधीनो भेदो दृष्ट इति परमाणुष्वपि तत्कृतभागक्ल-
प्तिरस्त्वित्याशङ्कते--नन्विति । दिक्संयोगेति-संयोगभेदादेव भागक्लृप्तिः