This page has not been fully proofread.

रसः ]
 
त्रिगुणपरीक्षायां परमाणुकारणवाद निरासः
 
187
 
-
 
सर्वार्थसिद्धिः
 
मेयेषु तु यथादृष्टान्तं सिद्धि: । अन्यथा अतिप्रसङ्गात् । ततश्चावय-
विवादिनामवयवास्स्वभागैर्मिथस्संयुज्य अवयविनमारभन्त इति
सिद्धान्तः । एतच्च व्यणुकावधि निर्विघातम् । व्यणुकारम्भे तु
निरवयवा अणवोऽवयवा इति कल्पितम् । तत्रैवं प्रसङ्गा-
वतारः – यदि परमाणव स्स्वांश तस्संयुज्यावयविनमारभेरन् तदा
तदंशोऽवयवरूपस्तदन्यो वा ? आद्ये तस्यापि तथेत्यनवस्था ।
अन्यस्तु स्वाभाविक औपाधिको वा ? पूर्वत्र भिन्नाभिन्नता
स्यात् । उत्तरत्रोपाधिसबन्धेऽप्यंशभेदो दुर्वचः । परिशेषात्त-
निरपेक्षसंयोगैरन्योन्यानाघ्रात भागभेद राहतैरणुभिरारम्भस्स्यात् ;
त्यक्तस्तर्हि सप्रतिघत्वविरोधः । सर्वेषु च परमाणुष्वेकपरमाणु-
प्रदेशमात्रावस्थितेषु स्वाधिकदेशव्यापिकार्यारम्भो न स्यात् ।
आनन्ददायिनी
 
अतिप्रसङ्गादिति । धूमादिना नित्यवह्विसिद्धिप्रसङ्गादित्यर्थः । एतच्चेति-
सिद्धान्त इत्येतदित्यर्थः । तदन्यो वेति विकल्पं विकल्पयति — अन्य-
स्त्विति । स्वाभाविक इति । तद्दव्यस्वरूपमेवांश इत्यर्थः । स्वभा-
वेन स्वरूपेणागतं संजातं वा । स्वार्थिको वा । स्वरूपमेवांशांशि-
भावापन्नमित्यर्थः । उत्तरत्रेति — उपाधिसंबन्ध एवांशांशिभावं भजत
इति भावः । नन्वंशाभावेऽपि स्वरूपेण संयुक्ताः परमाणव
आरम्भका भवन्त्वित्यत्राह परिशेषादिति । अन्योन्यानाघ्रातेति —
अन्योन्यासंयुक्तांशरहितैः— कृत्स्नसंयुक्तैरित्यर्थः । त्यक्त इति—एक-
परमाण्ववष्टब्धेप्रदेश परस्या ( परेणा ) प्यवष्टम्भस्य वक्तव्यतया स्पर्श-
वद्द्रव्यस्य सप्रतिघत्वनियमत्यागप्रसङ्गः; अन्यथा सर्वव्यापिसंयोगासं-
भवादित्यर्थः । दूषणान्तरमाह—सर्वेष्विति । तदेवोपपादयति-