This page has not been fully proofread.

186
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
कार्य नैवारभेरन् समधिकमणवस्सर्वतस्संप्रयुक्ताः
 
सर्वार्थसिद्धिः
 
भागानां चात्यन्तभेदो वेणुरन्धश्लोकेऽभाष्यत । एवं सत्यणु-
समूह एव प्रकृतिरिति स्थिते; 'महद्दीर्घवद्वा स्वपरिमण्डला-
भ्याम्' इति औलूक्योपालम्भो न युक्त इत्यत्राह — कार्यमिति
अयं भावः–अनन्यपरशास्त्रसिद्धेष्वर्थेषु 'श्रुतेस्तु शब्दमूलत्वात् '
इति न्यायेन गत्यन्तराभावे काचिद्गमनिका स्वीकार्या। अनु-
 
आनन्ददायिनी
 
अभाप्यतेति—–—प्रथमसूत्रभाष्ये महासिद्धान्ते अभेदव्यापिनो वायोः
वेणुरन्ध्रभेदेनांशभेदोऽभ्यधायि इति भावः । महद्दीर्घवद्वेति । ह्रस्व-
परिमण्डलाभ्यां – द्यणुकपरमाणुभ्यां महद्दीर्घवत् व्यणुकत्र्यणुकोत्पत्त्य-
नुपपत्तिवत् तदुक्तप्रक्रियान्तरमप्यनुपपन्नमिति सूत्रार्थः । ननु पृथ-
क्कार्यारम्भाद्यनुपपत्तिः सिद्धान्तेऽपि समेत्यत आह— अयं भाव इति ।
यागस्य स्वर्गसाधनताबोधकश्रुतिबलाददृष्टकल्पनावादित्याहुः । श्रुतेस्त्विति-
जगत्प्रति ब्रह्मणः कात्स्नर्येन काणत्वमेकदेशेन वेति विकल्पे ' कृत्स्न-
प्रसक्तिर्निरवयवत्वशब्दकोपो वा' इति सूत्रेण पूर्वपक्षं कृत्वा
समाहितं ' श्रुतेस्तु शब्दमूलत्वात्' इति । श्रुतेः - श्रुतिप्रामाण्यस्य
सत्त्वान्नोक्तदोषः ; कुतः ? शब्दमूलत्वात् -- इतरविसजातीयतया
शब्दवेद्ये लोकदृष्टव्याप्तयभावादित्यर्थः । अनुमानेन तु दृष्टसजा-
तीयमेव साधनीयं न विजातीयं व्याप्तयभावादिति
 
I