2025-01-21 07:36:35 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
185
सर्वार्थसिद्धिः
अभाष्यत च 'त्रिवृत्करणं पञ्चीकरण प्रदर्शनम्' इति ॥ १७ ॥
इति त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
ननु पञ्चीकरणाभिधानात्पञ्चसु भूतेषु स्वतस्सभागत्वं
व्यष्टिसमष्टिभावो भूतांशानां चात्यन्तभिन्नत्वं समानन्याय-
तया प्रकृतिपर्यन्तेषु तत्वान्तरेष्वपि तत्सर्वं सिद्धं । भूत-
आनन्ददायिनी
अभाष्यतेति । 'वैशेष्यात्तु तद्वादस्तद्वादः ' 'त्र्यात्मकत्वात्तु' इत्यादि-
सूत्रभाष्ये ।
66
" महाभूतान्यहङ्कारो बुद्धिव्यक्तमेव च ।
इति । क्षेत्रारम्भकद्रव्याणीत्यादिकमुक्त्वा प्रकृत्यादिपृथिव्यन्तद्रव्यारब्ध-
मिन्द्रियाश्रयभूतमिच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुख-
दुःखोपभोगाधारत्वप्रयोजनं क्षेत्रमित्युक्तं भवतीति " गीताभाष्ये चोक्तमि-
त्यर्थः । मूलश्लोकस्यायमर्थः - भूतानि द्वेधा भित्वा तत्र एकस्मिन् स्थित एव
अपरमर्धं पुनश्चतुर्धा भिनत्ति । तैः पुनः भिन्नस्यार्धस्य भागैः स्थि (स्थापि)
तेनार्धेन संयोजनार्थं (तु) परमर्धं अनुकलयति – संपादयतीत्यर्थः ॥ १७॥
-
इति त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
ननु परमाणु कारणत्वनिराकरणं प्रकरणे न सङ्गतमित्या-
क्षेपसङ्गतिमाह--ननु पञ्चीकरणाभिधानादिति । स्वतस्सभाग-
त्वमिति—अन्यथा विभागकरणासंभवादिति भावः । भूतांशाना-
मिति – भूतानामंशसंघातरूपत्वात्समष्टित्वं । अंशानां व्यष्टित्वं ।
समानन्यायतयेति—–—अन्यथा भूतानां सभागत्वं नानात्वं च न
स्यादिति भावः । तत्सर्वं सिद्धमिति – सभागत्वादि सिद्धमित्यर्थः ।