2025-01-21 07:36:34 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
183
भावप्रकाशः
भागत्रयविशिष्टता वस्तुनः एकदैव हस्ताभ्यां पृथक् पत्रादिच्छेदने
प्रथममेव त्रिधा विभागेन प्रथमतो द्वेधा छेदानन्तरमेकांशस्य पुनश्छेदेन
चेति द्विधा संभवति ; तत्रापि समपरिमाणतया विषमपरिमाणतया वा
छेदनेऽपीति श्रुतावेकत्र विनिगमकं न स्फुटं; एवं मेलनांशोऽपि
न स्फुट: ; तथाऽपि ' अन्नमशितं त्रेधा विधीयते ' इतिवत् त्रेधा
करवाणीति वा तिस्रः करवाणीति वा श्रौतपाठविरहेण प्रथमतः त्रिधा
भेदो न विवक्षितः । प्रथमतो द्वेधा भेदानन्तरमेकांशस्य पुनर्भेद एवेति
प्रतीयते समपरिमाणतया भेदः स्वार्घस्यान्यदीयपादांशैः मेलनं चेत्यत्र
श्रुतेरैदासीन्येऽपि 'वैशेष्यात्तु तद्वादस्तद्वादः ' त्र्यात्मकत्वात्तु भूयस्त्वात् '
इति सूत्रे स्मृतिवचनानि च प्रमाणं न त्वन्यत् । एवंच स्मृतिमन्तरा
श्रुत्यर्थनिर्णयः कस्यापि न संभवतीति स्मृतेरवश्यमादरणीयत्वे तदनु-
रोधेन प्रथमतो द्वेधा विभागे तत एकांशस्य विभागानन्तरं अंशयो-
र्द्वयोः पुनर्विभागः श्रुत्यनुक्तोऽपि ग्राह्यः । इत्थं च प्रथमतो विभागा-
नन्तरं चतुर्धा विभागस्संपद्यत इति वियदधिकरणे ' तासां त्रिवृतम् '
इत्यत्र तच्छब्दस्य सर्वशाखाप्रत्ययन्यायेन पञ्चभूतार्थकत्वव्यवस्थापनमपि
संगच्छते श्रुतिस्मृत्योरविरोधश्वेतयं सांप्रदायिकी सरणिरिति । एतेना-
द्वैतपरिभाषाव्याख्यानखण्डनव्यसनेन कल्पतरुकारपक्षपातिना वंशधिरेण
सांख्यतत्वकौमुदीविवरणे यदुक्तं - ' संप्रदायाध्वना पञ्चीकरणाङ्गीकारे
विनिगमनाविरहेण षडादिकरणापत्तिः । किंचैकैकं त्रेधा विभज्य
ततोंऽशद्वयमेकैकं द्वेधा विभज्य स्वस्वेतरांशेषु मेलनमिति रीत्याऽपि
स्वांशद्विकपञ्चविभागसंभवेन पञ्चीकरण संभवे संप्रदायरीत्यैव पञ्चीकरणे
विनिगमकाभावात् त्रिवृत्करणश्रुतिविरोधाच्च त्रिवृत्करणपक्ष एव मुख्य-
सिद्धान्तो भातीति तत्परास्तं संप्रदायाध्वना पञ्चीकरणे भूतगत-
पञ्चत्वसंख्याया विनिगमकत्वेन षडादिकरणापत्तिविरहात् । किंच
,