2025-01-21 07:36:34 by ambuda-bot
This page has not been fully proofread.
182
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
6
1*.
सर्वार्थसिद्धिः
*अनुक्तानामविरुद्धानामपेक्षितानामन्यतोऽपि ग्राह्यत्वं स्थापितम् ।
आनन्ददायिनी
इत्यर्थः । अनुक्तानामिति — आचमनादीनां स्मार्तानामपि दर्शादि-
विधिना (ग्राह्यत्वं) ग्रहणं क्रमविरोध्यपि कर्मकाण्डे स्थापितमित्यर्थः ।
भावप्रकाशः
मितपठितश्रुत्योरवैलक्षण्यमुदाहृतविरोधाधिकरणकुमारिलवार्तिकसिद्धमिति
भूयस्त्वेनोभयश्रुति' ३–३ - २० इति सूत्रोक्तन्यायेन पञ्चीकरणस्यैव
विधिः न त्रिवृत्करणस्येति बोध्यम् । अत्रानन्यपराणामित्यनेन छान्दोग्य-
श्रुतेरन्यपरत्वं दर्शितम् । अक्षपाददर्शनादौ आकाशस्य नित्यतायाः
तस्य वायोश्चाप्रत्यक्षताया अङ्गीकारेणाकाशवाय्वोस्सृष्टिः शुश्रूषोश्श्वेत-
केतोः झडिति न ज्ञातुं शक्यत इति पूर्वं छान्दोग्ये सृष्टयकथनं । तेन
च त्रिवृत्करणमात्रमुक्तं । तेजोबन्नेषु त्रिवृत्करणज्ञानानन्तरमाकाशवाय्वोः
श्रुत्यन्तरोक्तसृष्टेोर्निर्धारणे सति स्थूलारुन्धतीन्यायेन पञ्चीकरणप्रका-
रोऽपि ज्ञायत इति भावः । एतावता पञ्चीकरणस्मृतेः त्रिवृत्करण-
श्रुत्या सह विरोधमभ्युपेत्य परिहार उक्तः ; अथ विरोध एव नास्ती-
त्याह-'अनुक्तानामित्यादिना । अयमाशयः - यद्यपि छान्दाग्ये आका-
शवाय्वोः सृष्टिर्नोक्ता ; तथाऽपि तैत्तिरीयोक्ता सा सर्वशाखाप्रत्यय-
न्यायेन तत्रापि विवक्षिता । तदुक्तं वियदधिकरणश्रुतप्रकाशिकायां-
" किंच कुत्रचित् कस्यचिदवचनमन्यत्रापि तत्प्रतिपत्तिं वारयति चेत्
सर्वशाखाप्रत्ययनयो निर्विषयस्स्यादिति भावः इति । " एवंच ' तासां
त्रिवृतं त्रिवृतमेकैकाम्' इति श्रुतौ तच्छब्दस्य पञ्चभूतान्यर्थः ।
त्रिवृतमित्यस्य भागत्रयविशिष्टतया वर्तमानामित्यर्थः । अत्र यद्यपि