This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
 
181
 
तत्वमुक्ताकलापः
 
मैका निरोद्धुम् ॥ १७ ॥
 
त्यर्थः ।
 
सर्वार्थसिद्धिः
 
अत्र' * अनन्यपराणां 2* भूयसां च बलीयस्त्वं ;
आनन्ददायिनी
 
अनन्यपराणामिति–यद्यपि श्रुतिस्मृत्योर्विरोधे भूयसीनामपि स्मृतीनां बाध
एव; तथाप्यबाधेनोपपत्तौ बाघस्यान्याय्यत्वादन्यतरस्यान्यतररानुसारे वाच्ये
अविरोधेन वक्तुं च शक्येऽनन्यपरस्मृत्यनुसारो युक्तः ; तथा हि श्रुत्यर्थस्य
वाच्यस्य त्रिवृत्करणस्य सहस्रे शतन्यायेन संभवाद्व्यवच्छेदस्तु संख्या-
श्रवणकल्प्यः । स च श्रुतिमूलोऽपि भूयसां स्यादिति न्यायेन बाधित
 
भावप्रकाशः
 
( ३-१-२) त्रिवृत्करण एव व्यासतात्पर्यमिति व्यक्तम् ' ॥
 
* अनन्यपराणामित्यनेन अनन्यथासिद्धेनान्यथासिद्धं बाध्य-
मित्यनुगत एव बाध्यबाधकभाव इति सूचितं । अन्यपरत्वे प्रयोजकं
दर्शयति—भूयसां चेति । यथाऽऽह भूयस्त्वस्य बाधकताप्रयोजकत्वं
पूर्वतन्त्रे जैमिनिः 'विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम् '
(१२-२-२४) इति । अत्र सूत्रे श्रुतिलिङ्गमात्रबोधकं पदं किमपि
नास्ति । विप्रतिषिद्धधर्मपदं च श्रुतिस्मृतिसाधारणं । अत एव
विरोधाधिकरणे वार्तिककृता-
 
श्रुतिलिङ्गे यथाचेष्टे व्यवस्थितबलाबले ।
 
सन्निकृष्टविकृष्टार्थे तथैवेह श्रुतिस्मृती ॥
 
इति श्रुतिस्मृत्योः श्रुतिलिङ्गतुल्यबलाबलत्वोक्तिस्संगच्छते । स्मृत्यनु-