This page has not been fully proofread.

xxiii
 
प्रत्यक्षाल्लोकशब्दोक्तादधिकं च तदायतम् ।
अभाष्यत भवत्पूर्वैः प्रत्यक्षं चार्थसाधकम् ॥
अर्थकामौ पुमर्थौ च दृष्टोपायैरुदीरितौ ।
प्रीयसे दूयसे च त्वं बिभेषि च ततस्ततः ॥
इष्टं प्राप्तुमनिष्टं च निवर्तयितुमुद्यतः
तत्सिद्धैौ चरितार्थस्त्वं लोकवत्किं न मन्यसे ? ॥
बुभुक्षुरन्नमादत्से श्वभक्ष्यादि जहासि च ।
परोक्तया प्रतिपद्यार्थं प्रतिषे जिगीषया ॥
तत्वधाघारणार्थं वा वादे किं न प्रवर्तसे ।
 
स्वयं वा मानतर्काभ्यां किं न किंचित्परीक्षसे ॥
 
(सर्वार्थसिद्धि ४२६ - ४२७ )
 
इति जल्पकथापरिग्रहेण स्वपरिग्रहाग्रहप्रवृत्तानां वादकक्ष्याप्रदर्शना-
हङ्कारनिरसनमनुकूलमभिप्रयता; शिक्षणमिदं तैः परिगृहीतं 'अस्तु
तर्हि षड्धातुवादः अध्वर्युभिस्तथाध्ययनात्' इत्यभ्युपगमपर्यवसायी-
त्याशयेन श्रुतिप्रमाणकवादप्रवृत्तेः सर्वश्रुत्यैकरस्यप्रणयितानुगुण-
शिक्षणानुकूलतां मन्यमानेन सम्यङ्न्यायानुग्रहमात्रेण बलाबलदृष्ट्या
विरोधशान्तिः' इति सुशिक्षणं सङ्ग्रहेणोपसंहृतम् ॥
 
आर्षानार्षन्यायविस्तारवृन्देष्वाचार्याणां चातुरीवैभवोत्था ।
शिक्षाकक्ष्या निस्तरेद्वाह्यवादान् त्रय्यन्तार्थस्थापनासार्वभौमी ॥