2025-01-21 07:36:33 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन कार्यकरत्वम् 179
तत्वमुक्ताकलापः
द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं
चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्थमर्थं च-
सर्वार्थसिद्धिः
व्यनक्ति — द्वेधेति । स खल्वादिकर्ता स्वसृष्टानि 'पञ्च
भूतानि द्विधा कृत्वा ऐकैकं भागं स्थापयित्वा अर्धान्त-
राणि चतुर्धा विभज्य तत्तद्भागैश्चतुर्भिर्भूतान्तराणामविभक्तान्य-
धन्तराण्यनुकलयति । यथोक्तम् —
2 * एवं जातेषु भूतानि प्रत्येकं स्युर्द्विधा ततः ।
चतुर्धा भिन्नमेकैकं अर्धमर्थं ततः स्थितम् ।
व्योम्रोऽर्श्वभागाश्चत्वारो वायुतेजः पयोभुवाम् ॥
आनन्ददायिनी
यद्यपि पञ्चधा विभागस्सिद्धान्तेऽपि ; तथापि एकस्य भूतस्य समतया न
पञ्चधा विभागः । अपि तु द्विधा विभागे तत्रैको भागश्चतुर्धा विभज्यते
भावप्रकाशः
1 * पञ्च भूतानीति - अत्र 'पञ्च तन्मात्रा भूतशब्देनोच्यन्ते पञ्च
महाभूतानि भूतशब्देनोच्यन्ते ' इति मैत्रायणीयश्रुत्या भूतशब्दस्य
तन्मात्रसाधारण्येऽपि । त्रिवृत्करणश्रुतिस्मृत्यनुरोधान्महाभूतान्येव भूतशब्दे-
नोच्यन्ते । परमतभङ्गे–' तन्मात्रेषु पञ्चीकरणं पञ्चीकृतांशा आकाशा-
दयइत्युक्तिः तत्वपरिगणनपर श्रुतिस्मृतिपुराणादेरननुगुणा ' इति सूक्ति-
रिह भाव्या । तन्मात्राणां न पञ्चीकरणं किन्तु व्योमादिभूताना-
मेवेत्यत्र मानमाह – 2 * एवं जातेष्वित्यादिना ॥
12*