This page has not been fully proofread.

178
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्तोकलाप
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
ध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृति-
विकृतयः स्वस्वकार्यप्रसूतौ ॥ १६ ॥
 
सर्वार्थसिद्धिः
 
I
 
प्रकृतं हि मुख्यमक्षिणम् । अत्रापि तत्सम्भवे नान्यथा
गतिर्युक्तेति भावः । उक्तनिगमनव्याजेन-
विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्
ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ॥
सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ।
मयाध्यक्षेण प्रकृतिस्तूयते सचराचरम् ॥
यत्किञ्चिद्वर्तते लोके सर्वं तन्मद्विचेष्टितम् ।
इत्यादिकमपि (प्र) ख्यापयति — तस्मादिति ।
 
इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन
 
कार्यकरत्वम्
 
तत्वान्तराणामीश्वराधीनत्वं व्यष्ट्याद्यारम्भवृत्तान्तैरपि
 
आनन्ददायिनी
 
प्रकृतमिति । 'सेयं देवतैक्षत' इत्यादिनेत्यर्थः । अष्टरूपां अष्टौ प्रकृतय
इत्युक्ताष्टरूपां । ध्रुवां विनाशरहितां । तेन - ब्रह्मणा । अध्यासिता —
अधिष्ठिता पुरुषार्थं जगच्च सूयते ॥ १६ ॥
 
I
 
इति त्रिगुणपरीक्षायां प्रकृतिविकृतीनामीश्वराधिष्ठानेन कार्यकरत्वम्
 
पूर्वशेषत्वात्तत्संगतिरेव संगतिरित्याह — तत्वान्तराणामिति ।