2025-01-21 07:36:33 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां प्रकृतिविकृतानामीश्वराधिष्ठानेन कार्यकरत्वम्
177
तत्वमुक्ताकलापः
इशरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ वि-
श्रुतो विश्वरूपः । तेजोऽन्नाभिधेये बहुभवनमभि-
।
सर्वार्थसिद्धिः
देश्वार्थमाह-तत्तदिति । अन्तर्यामिब्राह्मणसुबालोपनिषदादि-
प्रसिद्धिमपि संवादयति - तदसाविति । विश्रुतः—प्रधान-
पुरुषविलक्षणत्वेन विश्वशरीरकतया प्रत्यक्षश्रुतिसिद्धः । क्वचि -
द्विश्वरूपशब्देनापि । ' तत्तेज ऐक्षत' ' बहु स्यां ' ' ता आप
ऐक्षन्त' 'बह्वयस्स्याम' इति वाक्यविशेषाभिप्रेतं तद्व्यनक्ति-
तेज इति । न ह्यचेतनमात्रस्य अनुत्पन्न करणकळेवरस्य कर्मि-
णो वा तदानीं बहुभवन संकल्पाश्रयत्वं युक्तं ; गौणत्वं
चात्रापि 'गौणचेन्नात्मशब्दात्' इति सूत्रन्यायेन निरस्तम् ।
आनन्ददायिनी
इति शरीरत्वोक्तिरिति भावः - अन्तर्यामीति । 'यस्य पृथिवी शरीरं यस्या-
पश्शरीरम्' इत्यादिनाऽन्तर्यामिब्राह्मणादिषु शरीरत्वोक्तेरित्यर्थः । क्वचिद्वि-
श्वरूपेति–'विश्वात्मन्' 'विश्वरूपाय वै नमः' ।' सर्वात्मन् ' ' विश्वरूप'
इत्यादावित्यर्थः । एवं तेज ऐक्षत आप ऐक्षन्त इत्यादिश्रुत्या बाध इत्याह-
तत्तेज ऐक्षतेत्यादि । तथा च चेतनाधिष्ठिता प्रकृतिः कारणमिति
भावः । नन्वत्रेश्वराधिष्ठितत्वं न प्रतीयत इत्यत्राह —— अभिप्रेतमिति ।
ननु प्रकृतेरचेतनायास्सङ्कल्पाश्रयत्वाभावेऽपि जीवस्य सम्भवाज्जविस्स्रष्टाऽ-
स्त्वित्यत्राह—अनुत्पन्नकरण कळेबरस्येति । नन्वैक्षतेतीक्षणं प्रवृत्ति-
मात्रं । तच्चाचेतनायाः प्रकृतेः सम्भवतीत्युक्तमित्यत्राह —— गौणत्वं चेति
SARVARTHA.
12