2025-01-21 07:36:32 by ambuda-bot
This page has not been fully proofread.
176
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
हुलतयाऽप्यत्र तज्ज्ञैरुदासि ॥ १५ ॥
निश्शेषं कार्यतत्वं जनयति स परो हेतुतत्वै-
सर्वार्थसिद्धिः
प्रक्रान्तेषु प्रकृत्यादिकारणेषु-
पुरुषार्थ एव हेतुः न केनचित्कार्यते करणम् ॥
इति वदतस्साङ्ख्यस्य अनन्यथासिद्धैश्श्रुत्यादिभिर्वाधमाह-नि-
श्शेषमिति । 'यत्किञ्चित्सृज्यते येन ' ' जगत्सर्वं शरीरं ते '
इत्यादिभिरेतत्सिद्धम् । 'तत्सृष्ट्वा' तदेवानुप्राविशत्' इत्या-
आनन्ददायिनी
उत्तरपद्येन तत्वानामीश्वरनिघ्नताकथनस्य
का सङ्गतिः ?
विवादाभावेन व्यर्थं चेत्यत्राह – प्रक्रान्तेति । प्रसङ्ग एव सङ्गतिर्विवाद-
श्चास्तीति भावः । सांख्यपद्यं पठति - पुरुषार्थ इति । करणं चक्षुरादिकं
सर्वं तत्वजातं केनचिदधिष्ठात्रा न कार्यते । कथं तर्हि तेषां प्रवृत्तिः ?
पुरुषार्थ एव हेतुः — स्वर्गापवर्गलक्षणः पुरुषार्थ एवानागतावस्था -
लक्षणसिद्धये प्रवर्तयतीत्यर्थः । चैतन्याभावेऽपि पुरुषार्थस्य प्रवर्तकत्वं
संभवति-
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा वृत्तिरज्ञस्य ।
इत्युक्तेः । एतत्सिद्धमिति—शरीरत्वं सिद्धमित्यर्थः ।
यत्किञ्चित्सृज्यते येन भूतं स्थावरजङ्गमम् ।
तस्य सृज्यस्य सम्भूता तत्सर्वं वै हरेस्तनुः ॥