2025-01-21 07:36:31 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां प्रकृतिविकृतिविभागपरीक्षा तद्गणनपरीक्षाच
तत्वमुक्ताकलापः
175
र्वमावर्जनीयम् । दृष्ट्वा सांख्यं पुराणादिकमपि ब-
हुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छ्रमब-
सर्वार्थसिद्धिः
यथामति । तदिदमाह - दृष्ट्वेति । एतत् - इतरत्सर्वं वाक्य-
जातमित्यर्थः । किमिति पूर्वाचार्यैरत्रोपेक्षितं तत्राह-चिन्तेति-
न प्रधानविरोधस्स्यादीदृशानवधारणे ।
इति शिक्षयितुं शिष्यान् प्राचां क्वचिदनिश्चयः ॥
इति त्रिगुणपरीक्षायां प्रकृति विकृति विभाग-
परीक्षा तद्गुणनपरीक्षा च.
आनन्ददायिनी
आकाशात् स्पर्शतन्मात्रं तस्माद्वायुः वायोः रूपतन्मात्रं तस्मा-
तेज इत्यादिरूपः । मूलश्लोकस्यायमन्वयः - केचित् - सांख्यादयः सांख्यं
योगं पुराणादिकं च दृष्ट्वा बहुधा निर्वहन्ति : बहुधेत्यस्य दृष्ट्वेत्यत्रान्वयः ।
निर्वहन्ति—सृष्टिक्रमं वदन्ति । तदितरत् सर्वं - आथर्वणवाक्यादितरत्
सर्वं। निष्कर्षेदम्परेऽस्मिन् · निस्सन्देहं प्रकृतिविकृतिविभागेदम्परे आथर्वण-
वचने । आवर्जनीयं–आथर्वणोक्तानुसारेण नेतव्यमिति । औदासीन्यस्य
प्रयोजनमाह - न प्रधानेति । तत्वहितपुरुषार्थप्रमितिविरोधाभावादी-
दृशावधारणे नावश्यं यत्नः कर्तव्य इत्यर्थः । अत्र पौराणिकः
पक्षः आथर्वणिकाभिमतत्वाद्गन्थकारस्याभिमत इति द्रष्टव्यम् । न्याय-
सिद्धाञ्जने तु द्वादशप्रकृतिपक्षाङ्गीकारः प्रतीयते । तथा च पक्षान्तर-
मप्यस्तीत्याहुः ॥ १५ ॥
इति प्रकृतिविकृतिविभागपरीक्षा तद्गणनपरीक्षाच.