This page has not been fully proofread.

174
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
तत्वप्रकरणे गुणपरिगणनानौचित्यात् । गुणशब्देन च क्वचि -
गुणाश्रयविवक्षा स्यात् । गत्यभावे गुणविवक्षायामप्यत्र द्रव्य-
विवक्षोपपत्तेः । आकाशाद्वायुरित्यादीन्यपि स्थूलसूक्ष्मभेदाना-
दरेणेति समाधानम् । एवं स्थिते तामसाहङ्कारोत्पन्न तन्मात्र -
पञ्चके भूतानि एकद्वित्रिचतुःपञ्चभिस्तन्मात्रैरारभ्यन्त इति
साङ्ख्याः । पूर्वपूर्वतन्मात्राणि उत्तरोत्तरतन्मात्रमेकैकं भूतं
जनयन्तीति पौराणिकाः । तत्राप्युत्तरोत्तरभूतसृष्टौ पूर्वपूर्वेषां
तन्मात्राणां भूतानां वा सहकारित्वमिति पक्षभेदः । एवमन्यो
आनन्ददायिनी
 
द्रव्यतत्वप्रकरणस्थोपबृंहणविशेषस्य का गतिरित्यत्राह – गुणशब्देनेति ।
' त्रीणि रूपाणि सत्यं ' ' गन्धविक्रयिकस्तथा' इत्यत्रेव गुणवा-
चकशब्दे तदाश्रयविवक्षेत्यर्थः । नन्वाकाशाद्वायुरित्यादिश्रुतिविरोध
इत्यत्राह - - आकाशाद्वायुरित्यादीति । तथाचाकाशादित्यादिपञ्चम्यन्ता-
स्तन्मात्राकाशादिपराः । वाय्वादिशब्दाः प्रथमान्ताः स्थूलसूक्ष्मो-
भयपराः । तथाचायमर्थः -- आकाशात्तन्मात्राकाशाद्वायुः । सूक्ष्म-
द्वारा स्थूल उत्पद्यत इत्यर्थः । एवमन्यत्रापि द्रष्टव्यं । एकद्वित्रयादीति-
भूतादितः पञ्च तन्मात्राणि । तत्राकाशमे कस्माच्छब्द तन्मात्रादुत्पद्यते ।
वायुः शब्दस्पर्शगुणयोगाच्छब्दस्पर्शतन्मात्राभ्यामुत्पद्यते । तदुभयस-
हिताद्रूपतन्मात्राद्गुणत्रयवत्तेजः । तत्रयसहिताद्रसतन्मात्रात्तद्गुणवज्जलं ।
तथा पञ्चभ्यस्तन्मात्रेभ्यः पञ्चगुणा पृथिवीति सांख्यसप्ततिव्याख्याने
वाचस्पतिना प्रतिपादितत्वादित्यर्थः । तत्राप्युत्तरोत्तरभूतसृष्टाविति ।
यदि भूतानां सहकारित्वं तदा तन्मात्राणामुपादानत्वमिति केचित् ।
अन्ये तदुभयस्यापि निमित्तत्वमेवेति वदन्ति । एवमन्योऽपीति–