2025-01-21 07:36:31 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां प्रकृतिविकृतिविभागपररीक्षा तद्गुणनपरीक्षाच 173
सर्वार्थसिद्धिः
दानत्वे प्रकृतयो विकृतयश्च द्वादश स्युः । ननूपबृंहण-
विशेषानुसारादिन्द्रियाणि शब्दादिगुणाश्च षोडश विकाराः ।
भूततन्मात्र भेदानादरेण प्रकृतयश्चाष्टावभ्युपगम्यन्तां ; मैवं द्रव्य-
आनन्ददायिनी
यदुक्तं भट्टपराशरपादैः सुबालोपनिषद्विवरणे – यदि भूतानामपि
प्रकृतित्वं तर्हि ' अष्टौ प्रकृतयष्षोडश विकाराः' इति श्रुतेः का
गतिरिति चेत् ; वेदोपबृंहणनिपुणतरपरमर्षिसन्दर्शितैव गतिः ; नास्माभि-
स्ताद्वरुद्धनिर्वहणेऽभिनिवेष्टव्यमित्यारभ्य ; तदपि स्वारस्याभावाद्दूषयति-
नन्वितीत्येके । विरोधपरिहारं शङ्कते नन्वितीति बहवः । मोक्षधर्मे
याज्ञवल्क्यजनकसंवादे -
अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश ।
अव्यक्तं च महांश्चैव तथाऽहङ्कार एव च ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ॥
श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।
वाकूच हस्तौ च पादौ च पायुर्मेदं तथैव च ॥
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।
मनष्षोडशमित्याहुस्तथैव गतिचिन्तकाः ॥
इत्याद्युपबृंहणानि द्रष्टव्यानि । आथर्वणवाक्यस्य द्रव्यतत्वप्रकर-
णस्थत्वादत्र गुणविवक्षा न सम्भवतीति परिहरति — मैवमिति । तर्हि
1
भावप्रकाशः
*ननूपबृंहणेत्यादि — अयमेवार्थो युक्त इति न्यायसिद्धाञ्जन-
व्याख्याने स्पष्टम् ।