This page has not been fully proofread.

172
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
विकाराः निष्कर्वेदम्परेऽस्मिन् वचसि तदितरत्स-
सर्वार्थसिद्धिः
 
नुक्रमे पूर्वापरवाक्यवदिन्द्रियतन्मात्रवाक्ययोर्न लीयत इति
पदमावृत्तं । एवं वाक्यवैरूप्ये सति अनुपङ्गाद्वरं अधिकरण-
विभक्तयाऽपि संसर्गमात्रग्रहणमिति स्थिते प्रकरणान्तरैक-
कण्ठ्यं भवतीति केवलविकृतित्वमिन्द्रियाणां युक्तम् । भूतानां
चाकाशादीनां चतुर्णां साक्षात्तन्मात्रद्वारेण वा तत्वान्तरोपा -
आनन्ददायिनी
 
-
 
तत्र साक्षादुपादानत्वश्रुतिः । न च लयो वा तत्र श्रुतः येन तदन्यथानु-
पपत्त्योपादानत्वं सिध्येदिति भावः । ननु वाक्यवैरूप्यपरिहारायानुषङ्गः
कल्प्यतामित्यत्राह — अनुषङ्गाद्वरमिति । श्रुतमात्रादेवोपपत्तेरिति भावः ।
अनुषङ्गपक्षे पूर्वापरवाक्ययोर्लयश्रवणं व्यर्थं सर्वत्रानुषङ्गादेवोपपत्तेः ; अतो
नानुषङ्ग इति व्यनक्ति-प्रकरणान्तरैककण्ठ्यं - सृष्टिप्रकरणैककण्ठ्यं । अयं
भावः-प्राणादीनामिन्द्रियाणां पृथिव्यादिभूतैराप्यायनं श्रुतिषु प्रसिद्धं ।
तत्र तत्र पृथिव्यादिषु वायुपर्यन्तेषु प्रलीनेषु तत्तदाप्यायकभूतानामपि
प्रलीनतया तेषामाकाशदशापन्नत्वात् सर्वैरपीन्द्रियैः स्वान्तर्गतेतरभूत-
चतुष्टयस्याकाशस्यात्र लयं वक्तुं तस्य तन्मात्रावस्थापन्नस्येन्द्रियसंसर्ग-
मनुवदति " इन्द्रियाणि तन्मात्रेष्विति " । पूर्वमाकाशे संसृष्टानीन्द्रि
याणि पश्चाच्छब्दतन्मात्रेषु संसृष्टानीति । अथ सेन्द्रियाणां तन्मात्राणां
स्वकारणे लयमाह ' तन्मात्राणि भूतादौ ' इति । भूतादिशब्देनाह-
ङ्कारमात्रं विवक्षितं । आकाशादेव वायुः वायोरेवाकाशसहितात्तेजः
तेजस एवापः अद्भ्य एव पृथिवीत्यद्वारकपक्षः । शब्दतन्मात्रादाकाश-
माकाशात स्पर्शतन्मात्रं ततो वायुरिति सद्वारकपक्षः । तौ न युक्तावि-
त्याह-भूतानां चाकाशादीनामिति । तथाचाथर्वणविरोध इति भावः । अत्र