2025-01-21 07:36:30 by ambuda-bot
This page has not been fully proofread.
रसः ] त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गनिरासः 171
तत्वमुक्ताकलापः
तत्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताष्षोडशान्ये
सर्वार्थसिद्धिः
ननु तत्वसृष्टौ क्रमनियमो न सम्भवति 'आका-
शमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु' इति सुबालोपनिष-
दाम्नानात् । अव्यवस्थिताश्च सृष्टिव्यवहाराः पृथ्व्यादिषु
दृश्यन्ते । अतो यथाश्रुतं कल्प भेदात्सृष्टिभेदस्स्यादित्य-
त्राह — तत्वेष्विति । अधीयते च केचिदाथर्वणिकाः 'अष्टौ
प्रकृतयष्पोडश विकारा:' इति । अत्र तावदव्यक्तमहदहङ्कार-
तन्मात्राणां प्रकृतित्वमविगीतं । इन्द्रियेभ्यस्तत्वान्तरोत्पत्ति-
श्श्रुत्यन्तरेषु पुराणेषु वा न क्वचिदृश्यते । सौचाले च लया-
आनन्ददायिनी
द्रव्यस्य पृथ्व्यादिपरिणतिलाघवाय स्वीकार्येति जैनमतस्था आहुः । तत्र—
तदुक्तेषु एकस्य परिणतिरिष्टा । सा च क्रमनियता तथा लयश्च तथा दृढ-
तरागमतः प्रतिपादनात् । या तु लाघवोक्तिः सा तर्कैकालम्बिगोष्ठ्यां बहु-
मतिं केवलानुमानतस्तत्वक्लृप्तिगोष्ट्यां-साङ्ख्यगोष्ठ्यां भजत्विति ॥१४॥
इति त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेद क्लृप्तिभङ्गनिरासः.
आक्षेपिकी संगतिरित्याह--ननु तत्वसृष्टाविति । सुबालोपनि-
षदीति ।
' पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ
लीयते वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु
तन्मात्राणि भूतादौ लीयन्ते' इत्यादिल्यानुक्रमणात् लयस्थानस्यो-
पादानत्वप्रतीतेरिति भावः । पूर्वोक्तगत्यन्तरमेव ज्याय इत्याह-
अत इति । ननु सुबालोपनिषद्वाक्यमस्तत्यिाह- सौबाले चेति । न च