This page has not been fully proofread.

xxii
 
इइि देहान्तात्मवाद उपक्षिप्तः । न तु देहानास्थागन्धोऽपि सूचितः ।
एवं रूपोऽपि सुशिक्षितचार्वाकवादः परमतभङ्गे निरस्तः । तत्वमुक्ता-
कलापेऽपि --
 
देहान्तत्वेऽपि धर्म्ये पथि निरुपधिका विश्ववृत्तिर्न सिध्येत्
इति लोकयात्रानिवहानुपपत्त्या निरसिप्यते ॥
 
अतो न कापि चार्वाकवादे आमुष्मिक कथासंस्पर्शगन्धः
तथापि सूत्रैः भाप्येण वाप्यपर्यवसितनिरूपणेन अनाकुलाक्षरग्रथनवि-
कलाश्चार्वाकाः नास्तिको नास्तिक इति जोघुप्यमाणमयशः स्वसमयनि-
र्वाहेण निर्विवादपरसमयपरिग्रहेण वाप्यपरिमृजन्तो यत्र सायंगृहया वाद-
गत्या तांस्तान् विवादान् निस्तरन्तः किं किं न शिक्ष्येरन् दृढयुक्ति-
शस्त्रभीता इति संभावित एव नानाजन्मपरिग्रहयोग्यावस्थोऽप्यात्मेति
निर्विवादपरिग्रह इति संभावयताचार्येण-
 
एको ज्ञानाश्रयस्तस्मात् अनादिनिधनो नरः ।
संसारी कश्चिदेष्टव्यः यद्वा नास्तिकता परा ॥
 
इति सविमर्शपक्षपातं प्राथमकल्पिकमुच्यमानं कम्बलाश्वतरीयं नास्ति-
क्यपरिग्रहानास्थामूलकं वचनं विमृशता वेदपरिग्रहवत्सु लौकाय-
तिकेषु सन्मार्गसौलभ्यातिशयं तर्कयमाणेन च आकाशाभ्युपगममनूद्य
प्रतिबन्दद्या भिन्नाभिन्नभवानुभूतार्थप्रतिसंघाताप्यभ्युपगन्तव्य इति
शिक्षणे ;-
 
स्वक्रियादिविरोधश्च सूत्रप्रभृति दुस्तरः ।
गुरुशिष्यादिवाक्यानां परबोधार्थता यतः ॥
तेभ्यश्चैतन्यमित्यादि वदता गुरुणा स्वयम् ।
 
किण्वादिभ्यः प्रसिध्यन्ती मदशक्तिर्निदर्शिता ॥