2025-01-21 07:36:30 by ambuda-bot
This page has not been fully proofread.
सर:]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गनिरासः 169
भावप्रकाशः
करणाकरणयोरेकत्र समावेशप्रसङ्ग इति भयात् सत्त्वेन वस्तु-
सामान्यं क्षणिकं वदतां बौद्धानां प्रतिद्वन्द्विनः स्थिरं द्रव्यपर्या-
यार्थिकनयभेदेन विरुद्धानेकधर्मात्मकं वस्तु अभ्युपगच्छन्त्यनेकान्तवा -
दिनः । अन्ये च नैयायिकादयो दार्शनिकाः विरुद्धानामपि धर्माणां
देशकालाद्यवच्छेदकभेदेनैकत्र वृत्तिमङ्गीकृत्य स्थिरं वस्तु साधयन्ति । एवं
स्थिते द्रव्यं नित्यं पर्यायस्यैवोत्पादो विनाशश्चेति द्रव्यांश एव सत्कार्य-
वादः द्रव्यपर्याययोर्भेद एवेति सिद्धान्ते विशेषणविशेष्यतत्सम्बन्धेषु
सम्बन्ध्युभयात्मके विशिष्टवस्तुनि विशेषणान्तर्भावेन पर्याप्तधर्मावच्छेदेन
उत्पादविनाशाङ्गीकारेऽपि तद्भिन्नधर्मावच्छेदेन शुद्धे तदनङ्गीकारः इत्यव-
च्छेदकभेदेन विरोधविरहात् वस्तु स्थिरमिति साधनेन कथं जैनमतप्र-
वेशः? वस्तुनि विरुद्धानेकधर्मात्मकत्वानङ्गीकारात् । इयं च सरणिरङ्गी-
कृता बौद्धाधिकारे शिरोमणिना – आत्मनामुत्पत्त्यभावेऽपि विशेषणस्य
`शरीरस्य तथात्वाद्विशिष्टस्य तथात्वव्यपदेशः । अपूर्वशरीरादिसम्बन्धरूपं
तुन मुख्य जन्यर्थः इति । व्याख्यातं चात्र गदाधरेण विशेषणोत्पत्ति-
क्षणस्य विशेष्याधिकरणसमयध्वंसाधिकरणत्वेऽपि विशिष्टाधिकरणसमय-
ध्वंसानधिकरणत्वरूपाद्यत्वाक्षतेः तत्सम्बन्धरूपजननस्य विशिष्टेऽपि निर्वा-
हाच्चत्रो जात इत्यगौणः प्रयोग उपपन्नः । जात इत्यस्याद्यशरीरसम्बन्ध-
वानित्याद्यर्थकत्वे च जात इत्यस्य लाक्षणिकत्वापत्तिः । अन्यथा भाष्या-
द्युपपादितदिशा-
:
कार्यात्मना च नानात्वमभेद: कारणात्मना ।
इति कार्यकारणयोर्भेदाभेदवादी वाचस्पत्यादिरेव जैनस्स्यादिति
भावः । यच्च–अकलङ्कविद्यानन्दाभ्यामबादौ गन्धादिसाधनानुमानं ;
तत्र सामानाधिकरण्येन साधने पञ्चीकृताबादौ गन्धादेः सिद्धान्तेऽप्य-
ङ्गीकारेण सिद्धसाधनं जले गन्धप्रत्यक्षोपपत्तिश्च । अवच्छेदकाव-