This page has not been fully proofread.

168
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
दश्च दृष्टः तद्वत्पृथ्वी जलाग्निश्वसनपरिणतिर्लाघवा-
येति जैनाः । तत्र द्रव्यैक्यमिष्टं
 
सर्वार्थसिद्धिः
 
नियतक्रमभूतसृष्टिकल्पना च' लाघवयुक्तिविहता । तदेतदनुभा-
पते-पृथ्व्या इति (१६१पु.) । दूष्यांशव्यक्तयै शेषमनुमनुते - तत्र
द्रव्यैक्यमिति । 2 त्रिगुणद्रव्यमेव हि वाय्वाद्यवस्थमिति भावः ।
आनन्ददायिनी
 
न्धनेत्यर्थः । दूप्यांशेति । ननु जैनैरप्येकजातीयद्रव्यस्य परिणामभे-
दोऽङ्गीकृतः । सिद्धान्तेऽपि प्रकृतेः परिणामभेद इति तन्मतात्को
भेद: ? इति चेत्; न; सिद्धान्ते क्रमनियमस्याङ्गीकाराद्भेद इति भावः ।
 
भावप्रकाशः
 
*'लाघवयुक्तीति-बाधकं प्रमाणं चोदाहृतानुमानं स्याद्वादागम-
श्चेति भावः । द्रव्यैक्यमिति मूले अविशेषाद्दव्यपर्याययोरप्यैक्यं विवक्षितं
प्रतीयते ; तथा सति सिद्धान्तिनोऽपि जैनमतप्रवेशापत्तिः । अजामेकामि-
त्यादिश्रुतिभिर्नित्यतयाऽङ्गीकृतायाः प्रकृतेरुत्पादविनाशाभ्युपगमेन ब्रह्म-
जीवयोः कार्यत्वाङ्गीकारेणोत्पादविनाशयोरकामेनापि स्वीकारस्यावश्यक-
त्वेन उत्पादव्ययत्रौव्याणामेकत्राङ्गीकारात् इति शङ्कां निराचिकीर्षुः
कारणकार्यद्रव्ययोरैक्यं द्रव्यैक्यमिति मूले विवक्षितमित्याह-
* त्रिगुणद्रव्यमिति ' सन्ति प्रागप्यवस्था : ' इत्यत्र अद्रव्यसरे च
द्रव्यपर्याययोरभेदो निरसिष्यते । तत एव च सिद्धान्ते जैनमता-
 
द्विशेषो व्यक्तीभविष्यति ।
 
-
 
खलु वस्तुनः स्थिरत्वे