2025-01-21 07:36:27 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गानुवादः
सर्वार्थसिद्धिः
167
र्यायान् भजत इति । यथा कणादप्रभृतीनां एकैकभूतपरमा-
णवः; यथा च साङ्ख्यादीनामेकैकं भूतं । अतो न शाश्वतभूत-
भेदक्लप्तिः । वाय्वादिचातुर्विध्योक्तिरपि पर्यायभेदनिबन्धना ।
आनन्ददायिनी
दिभिरनियतवाय्वादिरूपपर्याया उत्पद्यन्त इत्युक्तमिति भावः । यथा
कणादप्रभृतीनामिति । अनियतमृत्पाषाणाद्युत्पत्तिरित्यर्थः । न शाश्वतभू-
तभेदक्लृप्तिरिति । तैर्नित्यत्वानभ्युपगमादिति भावः । ननु—
वायुस्तेजो जलं भूमिरिति भिन्नाश्च पुद्गलाः ।
इति चातुर्विध्योक्तिः कथमित्यत्राह – वाय्वादीति । पर्यायः --परि-
णामः अवस्था इति यावत् । एकजातीयस्यैव परिणामभेदनिब-
भावप्रकाशः
सहभवगुणात्मकपर्यायाभिप्रायेण मूले ' स्पर्शादिभेद ' इत्युक्तं । क्रमभवप-
र्यायतात्पर्येण 'द्रवमृदुकठिनीभावभेदः' इति । एतद्विषयेऽप्यव्यवस्थित-
क्रमत्वं ' नित्यावस्थितान्यरूपाणि ( ५-२-२ ) इति सूत्रेण गम्यते ।
यथाऽऽह विद्यानन्द:-
द्रव्यार्थिकनयात्तानि नित्यान्येवान्वितत्वतः ।
अवस्थितानि साङ्कर्यस्यान्योन्यं शश्वदस्थितेः ।
ततो द्रव्यान्तरस्यापि द्रव्यषट्कादभावतः ॥
तत्पर्यायानवस्थानानित्यत्वे पुनरर्थतः ।
इति । परिणामस्त्रिविधः सदृशः विसदृशः सदृशविसदृशश्चेति । तत्र
गोत्वादिः सदृशपरिणामस्सामान्यं । विसदृशपरिणामो विशेषः खण्ड-
त्वादिः । नाशः प्रागभावश्चायमेव । सदृशविसदृशपरिणामश्च मृत्क-
पालघटाद्युपादानापादेयभावस्थले सर्वत्रेति बोध्यम् ।