2025-01-21 07:36:29 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गानुवादः
165
भावप्रकाशः
तद्भावः परिणामोऽत्र पर्यायः प्रतिवर्णितः ।
गुणात्सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम् ॥
पर्याय एवं च द्वेधा सहक्रमविवर्तितः ।
"
शुद्धाशुद्धत्वभेदेन यथा द्रव्यं द्विधोदितम् ॥ (४२सू )
इति । उत्पादव्ययधौव्ययुक्तं सत् (५-२९) इति सूत्रे उत्पादादीनां
द्रव्यस्य च उभयथा लक्ष्यलक्षणभावानुपपत्तिरिति चेन्न ; अन्यत्वान-
न्यत्वं प्रत्यनेकान्तोपपत्तेः' इत्यादौ भिन्नाभिन्नत्वं व्यक्तं राजवार्तिके-
स्यान्मतं ; उत्पादव्ययप्रौव्याणि द्रव्यादर्थान्तरभूतानि वा स्युः
अनर्थान्तरभूतानि वा ? यद्यर्थान्तरभावः कल्प्येत तानिव सत्वानि
ततोऽन्यत्वात् द्रव्यत्वाभावस्स्यात् । तदभावे च निराधारत्वादुत्पादादी-
नामभावः इति लक्ष्यलक्षणभावो नोपपद्यते । न हि असतां वन्ध्या-
पुत्राकाश कुसुमादीनां लक्ष्यलक्षणभावोऽस्ति । अथानर्थान्तरत्वमिष्येत
लक्ष्यमेव लक्षणमिति दृष्टविरोधस्स्यादिति; तन्न ; किंकारणं ? अन्यत्वा-
नन्यत्वं प्रत्यनेकान्तोपपत्तेः । पर्यायिणः पर्यायाणां च स्यादन्यत्वं
स्यादनन्यत्वं । यथैकस्य मनुष्यस्य जातिकुलरूपादिभिः अविशिष्टस्य
अनेकसम्बन्धान्तराविर्भूतपितृपुत्रभ्रातृभागिनेयादयो धर्माः परस्परतो
विशिष्टा उपलभ्यन्ते ; न तेषां भेदात्तस्य भेदः । नापि तस्याभेदात्तेषा -
मभेदः । ततः पितृत्वादिशक्तयपेक्षया नाना मनुष्यत्वापेक्षया न पृथक् ।
तथा द्रव्यस्यापि बाह्याभ्यन्तरहेतुविशेषापादिताः पर्यायाः कथञ्चिद्भिन्नाः
द्रव्यार्पणात्कथञ्चिदभिन्ना इति नासत्त्वं लक्ष्यलक्षणभावाभावः । तस्मा-
दुत्पादादित्रयैक्यवृत्तिः सत्ता तद्युक्तं द्रव्यमित्यवसेयं । अत्राह -
द्रव्यस्यात्मभूतोऽन्वयो धर्मः । पर्यायोऽप्यात्मभूतो द्रव्यस्येति तन्निवृत्ति-
वद्द्व्यनिवृत्तिकल्पनायामुच्छेद प्रसङ्ग इति, अत्र ब्रूमहे - स्यादेतदेवं ;
यदि क्रमेण पिण्डघटकपालादिवद्रूपिद्रव्य जीवानुपयोगत्वादिलक्षणः परि-