2025-01-21 07:36:28 by ambuda-bot
This page has not been fully proofread.
164
सव्याख्यसर्वार्थासिद्धिसहिततत्वमुक्तोकलाप
[
जडद्रव्य
6
भावप्रकाशः
इति सूत्रं (४-१-२) । अत्र राजवार्तिकं - गुणा द्रव्यादर्थान्तरभूताः इति
केषाञ्चिद्दर्शनं ; तत्किं भवत्संमतं ? नेत्याह । यद्यपि कथञ्चिद्व्यपदेशा-
दिभेदहेत्वपेक्षया द्रव्यादन्ये तद्व्यतिरेकात्तत्परिणामाच्चानन्ये । यद्येवं
स उच्यतां कः परिणामः इति : तन्निश्चयार्थमिदमुच्यते तद्भावः
परिणामः । धर्मादीनां येनात्मना भवनं स तद्भावः परिणामः ।
तत्स्वरूपं व्याख्यातं इति । ' वर्तना परिणाम:' इत्यादौ च
एकस्मिन् अविभागिनि समये धर्मादीनि द्रव्याणि षडपि स्वपर्यायै-
रादिमदनादिमद्भिरुत्पादात्ययधौव्यविकल्पैर्वर्तन्त इति कृत्वा तद्विषया
वर्तना' ' द्रव्यस्य स्वजात्यपरित्यागेन प्रयोगवित्रसालक्षणो विकारः
परिणाम:' । ' द्रव्यस्य चेतनस्येतरस्य वा द्रव्यार्थिकनयस्य अविवक्षातो
न्यग्भूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिकनयार्पणात् प्राधान्यं
विभ्रता केनचित् पर्यायेण प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः
प्रयोगविस्रसालक्षणः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः - पुद्गल -
विकारः। तदनपेक्षा विक्रिया विस्रसा । तत्र परिणामो द्विविधः अनादि-
रादिमांश्च। अनादिर्लोकसंस्थानमन्दराकारादिः । आदिमान् प्रयोगजो
वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्योपशमिकादिर्भावः कर्मोपशमाद्य-
पेक्षोऽपौरुषेयत्वात् वैस्रसिक इत्युच्यते । ज्ञानशीलभावनादिलक्षणः
आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य च मृदादेः
घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात्प्रयोगजः । इन्द्र-
धनुरादिनानापरिणामो वैस्रसिकः । तथा धर्मादेरपि परिणामो योज्यः
इति । एवं श्लोकवार्तिकमपि—
गुणवद्दव्यमित्युक्तं सहानेकान्तसिद्धये ।
तथा पर्यायवद्दव्यं क्रमानेकान्तावित्तये ॥ ३८॥