This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गानुवादः 163
 
सर्वार्थसिद्धिः
 
भेदैः '* अव्यवस्थितक्रमान् भिन्नाभिन्नस्वभावान् विचित्रप-
 
आनन्ददायिनी
 
स्कन्धा उत्पद्यन्ते । स्कन्धभेदनात्परमाणवः' इत्यादिभिरनियतवाय्वा-
दिरूपपर्याया उत्पद्यन्त इत्युक्तमिति भावः । भेदनात्परमाणवः' इत्या-
 
भावप्रकाशः
 
(५-१) भट्टाकलङ्कः — धर्मादयस्संज्ञास्सामयिक्यः । क्रियानिमित्ता वा
इत्यारभ्य पूरणगलनान्वर्थसंज्ञत्वात्पुद्गलः । यथा भासं करोति भास्कर
इति भासनार्थमन्तर्नीय भास्करसंज्ञाऽन्वर्था प्रवर्तते तथा भेदात्संघाता-
द्भेदसंघाताभ्यां पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य
पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः । यथा शवशायनं
श्मशानमिति । पुङ्गिलनाद्वा — अथवा पुमांसो जीवाः तैः शरीराहार-
विषयकरणादिभावेन गिल्यन्त इति पुद्गला इति ।
 
1
 
'*अव्यवस्थितक्रमान् भिन्नाभिन्नस्वभावान् विचित्रपर्यायानिति ।
तथाहि-'गुणपर्यायवद्द्रव्यं' इति सूत्रे राजवार्तिके भट्टाकलङ्कः-द्रव्यस्य
द्वावात्मानौ सामान्यं विशेषश्चेति । तत्र सामान्यमुत्सर्गे गुण इत्यनर्था-
न्तरं । विशेषो भेदः पर्याय इति पर्यायशब्दः । तदुभयसमुदितं रूपं
द्रव्यमित्युच्यते । गुणा एव पर्याया इति वा निर्देशः । द्रव्यस्य परिणमनं
पर्यायः। तद्भेदा एव गुणाः न भिन्नजातीया इति । 'द्रव्याश्रया निर्गुणा
गुणाः' इति सूत्रे च ; नित्यं द्रव्यमाश्रित्य ये वर्तन्ते ते
गुणाः ।
पर्यायाः पुनः कादाचित्काः इति न तेषां ग्रहणं । तेनान्वयिनो धर्मा
गुणा इत्युक्तं भवति । तद्यथा जीवस्यास्तित्वादयः ज्ञानदर्शनादयश्च ।
पुद्गलस्याचेतनत्वादयो रूपादयश्चेति । पर्यायाः पुनर्घटज्ञानादयः कपाला-
दिविकाराश्चेत्याह । पर्यायस्वरूपनिरूपणपरं च ' तद्भावः परिणामः '
 
11*