2025-01-21 07:36:27 by ambuda-bot
This page has not been fully proofread.
162
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
'*उक्तं च जैनैः – 2*पुनलाख्यमेकजातीयद्रव्यं तत्तत्सामग्री -
-
आनन्ददायिनी
व्यष्टावनियता समष्टौ नियतेति व्यवस्थेत्यर्थः । उक्तं च जैनैरिति-
विद्यानन्दादिभिरित्यर्थः । पुद्गलो नाम स्पर्शरसगन्धवर्णवद्दव्यं । तद्दि-
विधं - परमाणुरूपं स्कन्धरूपं चेति । परमाणुसंयोगात् द्यणुकादयः
भावप्रकाशः
1*उक्तं चेति उदाहृतसूत्रादौ ' स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ।
शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च । अणवः
स्कन्धाश्च । भेदसंघातेभ्य उत्पद्यन्ते । भेदादणुः । भेदसंघाताभ्यां
चाक्षुषः (५ अ २३-२८) इत्यादिसूत्रेषूक्तमित्यर्थः । अत्र प्रथमसू-
त्रश्लोकवार्तिके विद्यानन्दः—
अथ स्पर्शादिमन्तस्स्युः पुद्गला इति सूचनात् ।
क्षित्यादिजातिभेदानां प्रकल्पननिराकृतिः ॥
पृथिव्यप्तेजोवायवो हि पुद्गलस्य पर्यायाः स्पर्शादिमत्त्वात् ये न तत्पर्या-
यास्ते न स्पर्शादिमन्तो दृष्टाः यथाऽऽकाशादयः स्पर्शादिमन्तश्च
पृथिव्यादयः इति तज्जातिभेदानां निराकरणं सिद्धं । नन्वयं पक्षा-
व्यापको हेतुः स्पर्शादिः ; जले गन्धाभावात् तेजसि गन्धरसयोः
वायौ गन्धरसरूपाणामनुपलब्धेरिति ब्रुवाणं प्रत्याह-
नाभावोऽन्यतमस्यापि स्पर्शादीनामदृष्टितः ।
तस्यानुमानसिद्धत्वात् स्वाभिप्रेतार्थतत्ववत् ॥
2
इत्याह । * पुद्गलाख्यमिति । पुद्गलशब्द: पारिभाषिकः यौगिको वा ।
यथाह—— अजीवकाया धर्माधर्माकाशपुद्गलाः ' इति । तत्वार्थराजवार्तिके