This page has not been fully proofread.

सर: ] त्रिगुणपरीक्षायां जैनोक्तशाश्वतभूतभेदक्लृप्तिभङ्गानुवादः
 
1
 
*
 
तत्वमुक्ताकलापः
 
161
 
पृथ्व्याः स्पर्शादिभेदो द्रवमृटुकठिनी भावभे-
 
भावप्रकाशः
 
;
 
राजवार्तिके भट्टाकलङ्कः — स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्याय-
विवक्षेोपपत्तेः । स्पर्शादीनामानुपूर्व्येण निर्देश इन्द्रियक्रमाभिसम्बन्धार्थो
वेदितव्यः इति । इन्द्रियक्रमाभिसम्बन्धार्थः स्पर्शश्च रसश्च गन्धश्च
वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दा इत्यानुपूर्व्येण निर्देशः स्पर्श-
नादिभिरिन्द्रियैः क्रमेणाभिसंबन्धो यथा स्यात् इति । एते पुद्गलद्रव्यस्य
गुणा अविशेषेण वेदितव्याः । अत्र केचिद्विशिष्य तान् कल्पयन्ति—
रूपरसगन्धस्पर्शवती पृथिवी । रूपरसस्पर्शवत्य आपो द्रवाः खिग्धाश्च ।
तेजो रूपस्पर्शवत् । वायुः स्पर्शवानिति । तदयुक्तं -- रूपादिमान्
वायुः स्पर्शवत्त्वात् घटवत् । तेजोऽपि रसगन्धवत् रूपवत्त्वात् गुडवत् ।
आपोऽपि गन्धवत्यः रसवत्त्वादाम्रफलवत् । किञ्च अबादिषु गन्धा-
दीनां साक्षादुपलब्धेश्च । पार्थिवपरमाणु संयोगादुपलब्धिरिति चेन्न
विशेषहेत्वभावात् । नात्र विशेषहेतुरस्ति पार्थिवपरमाणूनामेते गुणाः
संसर्गात्त्वन्यत्रोपलभ्यन्ते ; न त्वबादीनामिति । वयं ब्रूमहे - तद्गुणाः
। ब्रूमहे—तद्गुणाः
तत्रोपलब्धेरिति । यदि हि संयोगादुपलब्धिः कथ्यते रसाद्युपलब्धिरपि
संयोगादेव कल्प्यताम् । नच पृथिव्यादीनां जातिभेदोऽस्ति ; पुगल-
जातिमजहन्तः परमाणुस्कन्धविशेषा निमित्तवशाद्विश्वरूपतामापद्यन्त
इति दर्शनात् । दृश्यते हि पृथिव्याः कारणवशाद्द्वता । द्रवाणां
चापां करकात्मभावेन घनभावो दृष्टः । घनश्च द्रवभावः । तेजसोऽपि
मषीभावः । वायोरपि दृष्टा रूपादयः । कथं गम्यते इति चेत् ;
परमाणुषु तेषां रूपादीनां कथं गतिः ? तत्कार्येषु दर्शनादनुमानमिति
चेत् ? इहापि तत एव वेदितव्यम् । इति । एतद्वार्तिकार्थमनुवदति-
मूले ' * पृथ्व्या इत्यादि । तत्र पुद्गलस्येति शेषः ।
 
SARVARTHA.
 
11