2025-01-21 07:36:27 by ambuda-bot
This page has not been fully proofread.
160
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
दुर्निवारमित्यर्थः । श्रुतिषु च न्यूनर्निर्देशेषु अनुक्तमधिकम-
न्यतो ग्राह्यं श्रुतहानायोगात् । अव्यवस्थितन्यूनाधिकसृष्टिकल्पने
गौरवाच्च ॥ १३ ॥
त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाण-
गतिव्यवस्था.
ननु कथमेवं तोयतेजसोः व्यष्टिसमष्टिसृष्टिव्यवस्था ? विचि-
त्रपरिणामशालिन स्त्रिगुणस्य कालभेदेनानियतपरिणामोपपत्तेः ।
आनन्ददायिनी
पृथिवीसृष्टेःव्यष्टितः पूर्वभावः प्रतिपाद्यत इति न विरोध इति भावः ।
नन्वेतच्छ्रुतिस्मृत्यनुसारेणैव श्रुत्यन्तराणां वा नयनं कुतो न स्यादि-
त्यत आह- श्रुतिषु चेति । न्यूननिर्देशानुसारेणाधिकश्रुतेर्नयने विरोधा-
दधिकश्रुत्यनुसारेण नयने शाखान्तराधिकरणन्यायेन विरोधाभावादिति
भावः । नन्वन्यतरानुसारेण किमर्थमन्यतरा श्रुतिर्नेया ? विकल्पितयोः
व्रीहियवयोः प्रयोगभेदेनेव कल्पभेदेनो भयोरुपपत्तेरित्यत आह - अव्यव -
स्थितेति ' धाता यथापूर्वमिति' व्यवस्थायाः सर्वकल्पेषु श्रुतत्वा-
दिति भावः ॥ १३॥
त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाणगतिव्यवस्था.
आक्षेपिकीं संगतिमाह- कथमिति । व्यष्टिसमष्टिसृष्टिव्यवस्था-
भावप्रकाशः
तत्वार्थाधिगमसूत्रेषु —– पञ्चेन्द्रियाणि । द्विविधानि । निर्वृ-
त्युपकरणे द्रव्येन्द्रियम् । लब्द्धयुपयोगौ भावेन्द्रियम् । स्पर्शन-
रसनप्राणचक्षुश्श्रोत्राणि । (२-अ १५-२० ) इतीन्द्रियद्वैविध्यमभि-
धाय स्पर्शरसगन्धवर्णशब्दास्तदर्थाः (२-अ-२१) इत्युक्तम् । अत्र