This page has not been fully proofread.

मानाः-
 
xxi
 
चार्वाकीया वादाश्च यद्यपि विशकलिततया तत्रतत्रोपलभ्य-
 
न वादोपायाभ्युपगमः ।
 
पूर्वं नैव स्वभावतः ।
 
खपुप्पादिपदशक्तिग्रहवत् आकाशादिपदानां भ्रान्तिसिद्धे शक्ति-
 
ग्रहः ।
 
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
 
समुदयमात्रमिदं कलेवरम् ।
 
ऋणं कृत्वा घृतं पिब ।
 
गच्छतामिह मार्गेषु व्यर्थं पाथेयकल्पनम् ।
 
नास्ति राजातिरिक्त ईश्वरः ।
 
घटपटादिकं न नित्यं नापि तुच्छं किं तु सादि निर्हेतुकजन्म च ।
आकाशस्त्वावरणाभावः स च निस्स्वभावः तुच्छतयैवेोपलम्भात् ।
तस्माद्दृष्टपरित्यागाद्यददृष्टप्रवर्तनम् ।
 
तद्धि लोकस्य मूढत्वं चार्वाकाः प्रतिपेदिरे ॥
इत्यादिरूपाः न कथंचन परलोकिनमात्मानं सूचयन्ति ॥
 
छान्दोग्ये च आत्मजिज्ञासयोपगतयोरिन्द्रविरोचनयो: ' सुवसनौ
साध्वलङ्कृतौ उदशरावेऽवेक्षेथां स आत्मेति' प्राथमिकोपदेशमात्र तृप्तस्य
विरोचनस्य ' आत्मानमेवेह महयन्नात्मानं परिचरन् उभौ लोकावा मोतीमं
चामुं च ' इत्यसुरान् प्रत्युपदेशवाक्ये अतिरिक्तात्मनिषेध एव निगम्यते ;
यद्यपि च न्यायमञ्जर्याम्— सुशिक्षितास्तु चार्वाका आहु:- यावच्छ-
रीरमेकं प्रमातृतत्वं अनुसंधानादिसमर्थमस्तु न तु शरीरादूर्ध्वं
 
तत्-
 
यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।.
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
 
6