This page has not been fully proofread.

158
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
तत्वसृव्यैकरूप्यात् । व्यष्टौ ताभ्यः कदाचित्तदु-
पजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादः
श्रुतिमितमितरं न प्रतिक्षेतुमीष्टे ॥ १३ ॥
सर्वार्थसिद्धिः
 
स्वेष्टां गतिमाह – व्यष्टाविति । निमित्तभूताभ्य इति भाव्यं ।
अतरशब्दों हेतुमवधिं वा ब्रूते । ननु ' आपो वा इदमग्रे '
'अप एव ससर्जादौ' इत्यादिश्रुतिस्मृतिदर्शनादनयादेस्सर्व-
स्यान्नयस्सृष्टिस्स्यात् इत्यत्राह - आदाविति । महदादीनामिवा-
आनन्ददायिनी
 
निमित्तभूताभ्य इति । 'अद्भ्योऽविरिति ' वचनं व्यष्टिसृष्टौ तेजः प्रति
निमित्तकारणत्वमाह यथा तप्ततैलेऽग्निमुत्पादयन्त्यापः । 'अराप '
इति तु समष्टिसृष्टौ उपादानत्वमाहेति न विरोध इत्यर्थः । पञ्ची-
कृतेभ्यः (भूतत्वापन्नेभ्यः ) उत्पत्तिर्व्यष्टिसृष्टिः ततः प्राक्तनसृष्टिस्सम-
ष्टिसृष्टिः । न्यायत? इत्यनेनैव हेतुत्वस्य सिद्धत्वादत इति शब्दवै-
यर्थ्यमिति पक्षान्तरमाह — अवधिमिति । अतस्तेजसस्सकाशादित्यर्थः ।
श्रुतिस्मृतिभ्यामपामेवादावुत्पत्तिश्रवणादुक्तनिर्वाहो नोपपद्यत इत्याशङ्कय
समाधत्ते—नन्वित्यादिना ' आपो वा इदमग्रे सलिलमासीत् ' । ' अप
 
भावप्रकाशः
 
ततश्च श्रुतिमूलत्वाद्वाध्योदाहरणं न तत् ।
विकल्प एव हि न्याय्यस्तुल्यकक्षप्रमाणतः ॥
 
इति । व्याकरणाधिकरणेऽपि—
 
स्मृतीनामप्रमाणत्वे विगानं नैव कारणम् ।