This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाणगतिव्यवस्था 157
 
तत्वमुक्ताकलापः
 
अयोऽग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं
युक्तमेकं निर्वाहः कल्पभेदाद्यदि न दृढमिता-
सर्वार्थसिद्धिः
 
प्रमाणविप्रतिपत्तिं शमयति---
 
अद्भयोऽग्निरिति। '*अबाधेन गतिमत्वे श्रुतिविरोधप्रतीतावपि
स्मृतिस्तद्वदबाध्येति भावः । गत्यन्तरं निवारयति - निर्वाह इति ।
आनन्ददायिनी
 
अबाधेन गतिमत्त्व इति । तद्वदिति - श्रुतिवदित्यर्थः । तदुक्तं-
परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
 
स्मृतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ॥
 
इति । यथा श्रुत्योर्विरोधे निर्वाहस्तथा विरुद्धाया अपि स्मृतेरिति भावः ।
 
भावप्रकाड़ाः
 
* 'अबाधेन गति मत्त्वे इति । तदुक्तं तन्त्रवार्तिके विरोधाधि-
 
करणे कुमारिलेन-
 
वेदो हीदृश एवायं पुरुषैर्यः प्रकाश्यते ।
 
स पठद्भिः प्रकाश्येत स्मरद्भिर्वेति तुल्यभाक् ॥
 
इत्यारभ्य-
 
बाधिता च स्मृतिर्भूत्वा काचिन्नायविदा यदा ।
श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥
तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः ।
बाधाबाधानवस्थानं ध्रुवमेव प्रसज्यते ।