2025-01-21 07:36:24 by ambuda-bot
This page has not been fully proofread.
156
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः
[जडद्रव्य
मुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेदः कलल-
दधिनयात्कल्पितस्तत्वविद्भिः ॥ १२ ॥
सर्वार्थसिद्धिः
इह शब्दादयः । तेषां समुदय उत्पत्तिः । तत्प्रक्रियातारतम्यं
सूक्ष्मस्थूलस्वभावतयैव । तच्च शास्त्रगम्यं । कललशब्दोऽत्र
दुग्धदधिमध्यावस्थविषयः । तत्र हि निवृत्तभूयिष्ठमाधुर्यमीष-
दाम्लत्वमुपलभ्यते तथा स्यात् ॥ १२ ॥
त्रिगुणपरीक्षायां तन्मात्र भूतयोरुत्पत्तिः श्रुतिस्मृतिविप्रति-
पत्तिनिरासश्च.
एवं तन्मात्र भूतसृष्टिप्रकार उक्तः । तत्र तोयतेजसोस्स्सृष्टधै
आनन्ददायिनी
कललदधिनयादित्यत्र नाडीमुष्ट्योश्चेति ज्ञापकादुपपत्तिरिति भावः॥१२॥
त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिः श्रुतिस्मृतिविप्रतिपत्तिनिरासश्च.
'सृष्टौ श्रुतिस्मृति (विप्रतिपत्तिः) विरोधः पूर्वश्लोके परि (हृता ) हृतः
अत्र स एव परिह्वियत इति पौनरुक्तयं वारयन् पूर्वसङ्गतत्वान्न पृथक्
संगतिरित्याह — एवं तन्मात्रेति । तोयतेजसोरिति ।
अग्नेराप' इति
श्रुत्या तेजसस्सकाशादपामुत्पत्तिरुच्यते ।
अबावृतमिदं सर्वमद्भ्योऽग्निरुदपद्यत ।
इति स्मृत्या अद्भयस्तेजसस्सृष्टिः प्रतिपाद्यत इति श्रुतिस्मृत्योर्विप्रतिपत्तिः ।
न च श्रुत्या स्मृतिबाधः अबाधेनापि सम्भवे बाधस्यान्याय्यत्वादित्याह-
भावप्रकाशः
न्याय्यकल्पनैकदेशत्वात्' (९-३-१५) इति जैमिनिसूत्रे चैतदर्थोऽवसेयः ॥