2025-01-21 07:36:25 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिः श्रुतिस्मृतिविग्रतिपत्तिनिरासश्च 155
तत्वमुक्ताकलापः
नभस्त्वं तत्तन्मात्र पूर्वास्तदुपरि मरुदन्नयम्बु-
भूम्यः क्रमात्स्युः । सूक्ष्म स्थूलस्वभावस्वगुणस-
सर्वार्थसिद्धिः
गुणं नेतव्या । अतः 'पाशवद्बहुवचनमनादरणीयं अंशभूयस्त्व-
व्यक्तयर्थं वा । तस्माच्छब्द तन्मात्रमेकमहङ्कारजन्यं । तच्च
परिणतिविशेषादाकाशत्वं भजते । एतेन सर्वत्र सृष्टौ द्रव्यानु-
वृत्तिस्सूच्यते । तद्वत् - आकाशवत् । तन्मात्र पूर्वा (का) णि
वाय्वादिभूतानि स्युः । ननु यदि शब्दाद्याश्रयतया तत्तद्भूतत्वं
तर्हि कथं तत्र पञ्चकद्वयक्लप्तिरित्यत्राह — सूक्ष्मेति । स्वगुणा
आनन्ददायिनी
तर्हि वहुवचनस्य का गतिरित्यत्राह - - पाशवदिति । अग्नीषोमीये एक-
पशुके पाशबहुत्वाभावात् ' अदितिः पाशानिति' बहुवचनमविवक्षितं
अंशबहुत्वपरं वा तत्र निर्णीतं । तथात्राप्यविवक्षा शब्दतन्मात्राणाम-
नेकत्वज्ञापनेन चरितार्थं वेति भावः । उपसर्जनस्यापि तात्पर्यात्प-
रामर्शस्तच्छब्देनेत्याह —– अकाशवदिति । मूले
भावप्रकाशः
लीयते' इत्यादिपूर्ववाक्यविरोधात् 'आकाशाद्वायुः' इत्यादिश्रुत्यन्तर-
विरोधाच्च । तथात्वे हि पृथिवी गन्धतन्मात्रे लीयते आपो रसतन्मात्रे
लीयन्ते इत्यादिक्रममुक्ता तन्मात्राणि भूतादाविति वक्तव्यं । नचेयं
श्रुतिरत्यन्तक्रमनिर्बन्धपरा; आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु
इति भवतामप्यनभिमतक्रमविशेषापातप्रतीतेः इति श्रीन्यायसिद्धाज्ञ्जन-
श्रीसूक्तिरनुसन्धेया। '*पाशवदिति - 'विप्रतिपत्तौ विकल्पस्स्यात् गुणे त्व-