This page has not been fully proofread.

154
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
प्रसिद्धितो नियमः । भूतानां तु यथास्वं तन्मात्रेभ्यः क्रमा-
दुत्पत्तिरिति कश्चिन्मन्यते ; तं प्रति ब्रूमः * न ह्यनुपबृंहणा
श्रुतिरात्तमा । * अन्योन्यघटिता'*नेकोपबृंहणविरोधे तदनु-
आनन्ददायिनी
 
भूतानामिति । तत्र पौर्वापर्यमात्रे तात्पर्यं न त्वव्यवधानांशोऽपि स्वीकार्यः ।
तथा सत्याथर्वणश्रुतिबाधापत्तेः । न च स युक्तः; अबाधेनोपपत्ता बाधस्या-
न्याय्यत्वात् । अत एव भट्टपादैर्विरोधांधिकरण-
 
यदि द्वित्राङ्गुलं मध्ये विमुच्योत्तरभागतः ।
वेष्ट्येतौदुम्बरी तत्र किं नाम न कृतं भवेत् ॥
 
इति । श्रुतिस्मृत्योरविरोधोऽङ्गीकृतश्चेत् किं पुनश्श्रुत्योरिति भावः ।
कश्चित्—साङ्ख्यः । अनुपबृंहणेति —— त्रिवृत्करणादिश्रुतिवदिति भावः ।
 
3
 
भावप्रकाशः
 
1 * भूतानामित्यादि एतच्च अत्रैवोत्तरत्र 'भूतान्येकद्वित्रिचतुःपञ्च-
भिस्तन्मात्रैरारभ्यन्त इति साङ्ख्याः' इत्यत्र स्फुटम् । एवं प्रकृतेर्महान्...
पञ्चभ्यः पञ्चभूताति(२२) इति कारिकातत्व कौमुद्यामपि । उपबृंहण-
शून्यश्रुतेस्साङ्ख्याभिमतसाधकता न सम्भवतीत्याह - 2*न हीति । विरो-
धाधिकरणावरोधो नेत्याह अन्योन्यघटितेति - तन्मात्रभूतघटितेत्यर्थः ।
^ * अनेकेत्यनेन विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वं '
(१२-२-२) इति न्यायस्सूचितः । अतः पञ्चरात्रस्मृतेः मानान्तरानपेक्ष-
प्रामाण्योपपादनपूर्वकं श्रुत्या सह विकल्पस्यागमप्रामाण्ये साधिततया
च न विरोधाधिकरणविरोध इति भावः । अत्र ' तन्मात्राणि भूतादौ
लीयन्ते' इति श्रुतिस्तु न साक्षाद्यौगपद्येनाप्ययपरा; 'पृथिव्यप्सु
 
6