This page has not been fully proofread.

सर: ] त्रिगुणपरीक्षायां तन्मात्रभूतयोरुत्पत्तिः श्रुतिस्मृतिविप्रतिपत्तिनिरासश्च 153
 
तत्वमुक्ताकलापः
 
तत्राहङ्कारजन्यं भजति परिणते शब्दमात्रं
सर्वार्थसिद्धिः
 
अथ तेषु तन्मात्रसृष्टौ श्रुतिस्मृतिविप्रतिपत्तेस्संशयं विपर्ययं वा
निरस्यति तत्रेति । *'श्रूयते हि 'तन्मात्राणि भूतादौ लीयन्ते'
इति । न च श्रुतिविरुद्धा 'स्मृतिरुदीयेत । अतः पञ्चानामपि
तन्मात्राणां तामसाहङ्कारादुत्पत्तिः बहुवचनात् । बहुत्वस्य च
आनन्ददायिनी
 
भूतादौ लीयन्ते ' इत्याथर्वणश्रुतिः ।
 
प्रधानं तत्वमुद्भूतं महत्तत्वं समावृणोत् ।
 
इत्यारभ्य -
 
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ।
 
संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥
 
इत्यन्ता विष्णुपुराणरूपा स्मृतिः । न चेति । विरोधाधिकरणन्याया-
दित्यर्थः । ननु पञ्चत्वस्याश्रवणाद्विरोधो नास्तीत्यत्राह — बहुवचना-
दिति । नन्वेवं आकाशाद्वायुरित्यादिकं विरुध्येत तत्राह—
 
1
 
भावप्रकाशः
 
पृथिव्यप्सु
 
* श्रूयते हीत्यादि । अयमत्र सौबालश्रुतिक्रमः-
लीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे
लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ
लीयन्ते' इत्यादि । 2*नचेत्यादि । तदुक्तं पूर्वतन्त्रे 'विरोधे त्वनपेक्ष्यं
स्यादसति ह्यनुमानं' (३-३-३) इति । *स्मृतिः– विष्णुपुराणादिकं ।
पञ्चरात्रवचनानि चान्यत्र (न्या - सि-व्या) उदाहृतानि ।