This page has not been fully proofread.

152
 
सव्याख्यसर्वथीसद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
प्राच्यादक्षाणि मात्रा: प्रजनयति परो मध्यमस्तू-
 
भयार्थः ॥ ११ ॥ 1
 
सर्वार्थसिद्धिः
 
न्द्रियाणि । परस्तु भूतादिसंज्ञस्तन्मात्राः क्रमाज्जनयति । मध्यम-
स्तैजसाख्यः पूर्वापरयोरनुग्राहकतया तदुभयसाध्य सृष्टिद्वयार्थः ।
तुशब्दो मतान्तराद्व्यवच्छिनत्ति । कल्पितं हि कैश्चित्तन्त्रा-
न्तरनिष्ठैः कर्मेन्द्रियाणां प्रवृत्तिशीलतया राजसाहङ्कारजन्यत्वं;
तच्चायुक्तं ; शब्दैकगम्येऽर्थे युक्तिभिरन्यथाकरणायोगात् ॥ ११ ॥
त्रिगुणपरीक्षायां तन्मात्रादेरागमिकता महदाद्युत्पत्तिप्रकारच
 
एवं प्रकृत्यादीनामागमगम्यत्वं सृष्टिप्रकारं च संजगृहे ।
आनन्ददायिनी
 
तैजसाख्यः राजसः अनुग्राहकतया प्रवृत्त्युत्पादनेनेति शेषः । तन्त्रान्तर-
निष्ठैरिति- शैवशास्त्रनिष्ठैरित्यर्थः ।
 
ज्ञानेन्द्रियकर्मेन्द्रियभूतान्यहङ्कारतः क्रमशः ।
 
इत्युक्तेः । केचित्तु — मायिनस्तन्त्रान्तरनिष्ठाः इन्द्रियाणां भौतिकत्वेऽपि
तन्मध्ये सात्विकांशैः भूतैर्ज्ञानेन्द्रियाणि राजसांशैः कर्मेन्द्रियाणि तामसांशै-
भूतानीत्युक्तेरित्याहुः। प्रमाणशून्यत्वादयुक्तं तदित्याह-तच्चायुक्तमिति ॥
त्रिगुणपरीक्षायां तन्मात्रादेरागमिकता महदाद्युत्पत्तिप्रकारच
 
सत्वाद्युन्मेषभिन्नादित्यादिना सृष्टिरुक्ता । पुनस्तदुक्तौ पौनरुक्तय-
(मिति शङ्कां परिहरन्नवसरसङ्गतिं दर्शयति) माशङ्कयावतारयति -
एवं प्रकृत्यादीनामिति । श्रुतिस्मृतिविप्रतिपत्तेरिति — ' तन्मात्राणि
भावप्रकाशः
 
तन्त्रान्तरं ----शैवागमः । परमतभङ्गे च । (२४) (१५३) स्फुटमेतत् ।